पृष्ठम्:अलङ्कारमणिहारः.pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
92
अलंकारमणिहारे

 नासीदस्ति भविष्यति विधातृसर्गे क्व वाऽपि मादृक्षः । त्वयि सति शुभगुणविपणौ योऽन्यं पिपणायिषामि कृपणमनाः ॥ १६१ ॥

 इत्यादावपि काव्यलिङ्गादिसंकीर्णता द्रष्टव्या । सर्वेष्वेतेषूदाहरणेषु सर्वथैवोपमाननिषेधादसमालंकारः, क्वाचित्कस्सदृशप्रतिषेध उपमानलुप्ताया विषयः । अस्य त्वात्यन्तिकसदृशप्रतिपेध इति नोपमानलुप्तोपमया चारितार्थ्ययम् । सर्वात्मनैवोपमानप्रतिषेधेन सादृश्यस्याप्रतिष्ठानान्नात्रोपमागन्धोपि ।

 नन्वसमालंकारध्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथगलंकारता कथमिति चेत्--सत्यं, दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारोपपत्तौ कथंनाम पृथगलंकारत्वमिति तुल्यम् । न च दीपकादावुपमाव्यङ्ग्यत्वेऽपि गुणीभावात् प्रकृते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारेणासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम् । यथा हि दीपकसमासोक्त्यादौ गुणीभूतव्यङ्ग्यसत्त्वेऽप्यलंकारत्वं न हीयते एवमनन्वये प्रधानव्यङ्ग्यसत्त्वेऽपि न किंचिद्विरुद्धम् । अनन्वयशरीरस्य सादृश्यमात्रस्य वाच्यत्वेन वाच्यालङ्कारव्यपदेशोऽपि मुख्य एव । दीपकाद्यलङ्कारकाव्ये गुणीभूतस्य व्यङ्ग्यस्य सत्त्वादस्तुनाम गुणीभूतव्यङ्ग्यत्वम् । ध्वनित्वं पुनर्न क्वाप्यलङ्कृतिकाव्ये दृष्टमिति चेत् पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसादिकाव्ये ध्वनित्वस्य स्फुटत्वात्, इति वदन्ति ॥

 प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥

 अयमसमालंकारो व्यज्यमानोऽपि सम्भवति । यथा--