पृष्ठम्:अलङ्कारमणिहारः.pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
93
असमालंकारसरः (४)

 सर्वज्ञोपि गिरीशस्तव सदृशं वस्तु किमपि निजिगदिषुः। श्रीश तदप्रतिपत्तेरद्यापि स्थाणुतां न विजहाति ॥ १६२ ॥

 अत्र यस्त्वां तुष्टूषुस्सर्वज्ञो गिरीशोऽप्येतावन्तं समयं त्वत्तुल्यवस्त्वप्रतिभानात् स्थाणुरेवासीत् सोऽग्रेऽप्येवमेव स्यात् । अन्यथाभावे मानाभावादिति सर्वथैव त्वत्सदृशं वस्तु नैवास्तीति गम्यते । एवंच व्यज्यमानोऽप्यत्रासमालंकारः प्रधानीभूतभगवत्स्तुत्युत्कर्षोपस्कारकतयाऽलंकार एव ॥

 मुख्यतया ध्वन्यमानो यथा--

 दर्वीकराद्रिशेखर सर्वं पदमर्थवत्त्वया व्यरचि । तुल्याभिधायि तु पदं कालत्रितयेऽपि नार्थवदहो ते ॥

त्वया सर्वं पदं सुप्तिङन्तात्मकं इन्द्रादिस्थानं च अर्थवत् अभिधेयवत् विभववच्च व्यरचि । तं तव तुल्याभिधायि सदृशार्थाभिधायि पदं तु कालत्रितयेऽपि नार्थवत् न धनवत् नाभिधेयवच्च कस्मादित्याश्चर्यम् ॥

 यथा वा--

 गगनलिखितेषु पन्नगनगवरधौरेय चित्रपुरूषेषु । स गणयितव्यः पुरुषोऽनुगुणो यस्त्वदुपमालवस्यापि ॥ १६४ ॥

 अनयोरुदाहरणयोरसमत्वं प्राधान्येन व्यज्यते । अयं क्वचिदुपमानस्य निषेधात्, क्वचिच्च साक्षादुपमाया एव । तत्राद्य उपदर्शितः ॥