पृष्ठम्:अलङ्कारमणिहारः.pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
91
असमालंकारसरः (४)

 सद्वितीयः द्वितीयवस्तुना सहितः चिदचिद्विशिष्ट एवेत्यर्थः । द्वितीयया सहधर्मिण्या श्रिया सहित एवेत्यप्यर्थः । श्रीविशिष्टस्यैव जगज्जन्मादिकारणत्वात्सद्वितीय एव सृजसीत्याद्युक्तिः । तदपि तथाऽपि श्रुतिः ‘एकमेवाद्वितीयम्' इति श्रुतिः अद्वितीयं द्वितीयवस्तुरहितं असदृशमिति तु वास्तवार्थः ॥

 यथ वा--

 असदृश इति निगदंस्त्वां जनोऽभिनन्द्येत सदृशमाहेति । सदृगस्ति तवेति वदन्न सदृगिति जनैर्विनिन्द्यते चित्रम् ॥ १५९ ॥

 हे भगवन्! त्वां असदृश इति वदन् जनः सदृशमाह अनुरूपं युक्तमाहेति जनैरभिनन्द्यते । तवासदृशत्वस्य वस्तुसतो यथावदुक्तत्वादिति भावः । तव सदृक् सदृशः अस्तीति वदन् जनः न सदृक् सदृशो न योग्यो न अननुरूपार्थकथनादिति भावः । दृशा सह वर्तत इति सदृक् न अन्ध एव ज्ञानहीन एवेत्यर्थः । यद्यस्य दृष्टिरेवाभविष्यत्तर्हि तव सदृगस्तीति नावदिष्यदेवेति भावः । इति जनैर्विनिन्द्यते, चित्रं असदृशं वक्तुस्सदृशवक्तृत्वेन सदृशं वक्तुरसदृक्त्वेन च कथनमाश्चर्यावहमिति भावः । अनयोरुदाहरणयोश्श्लेषमूलकविरोधसंकीर्णत्वं पूर्वेभ्यो वैलक्षण्यं बोध्यम् ॥

 एवम्--

 न किमपि कौस्तुभतेजस्सममभवद्भवति वाऽथ भविता वा । यत्र किल मित्रशशधरकृशानुतारास्स्फुलिङ्गकाकाराः ॥ १६० ॥