पृष्ठम्:अलङ्कारमणिहारः.pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
88
अलंकारमणिहारे

 अत्र हरिपदयुगनखरेखादिकर्तृकस्यान्योन्याध्यापनस्य बाधाल्लावण्यसंक्रान्तिविशेषस्य लक्षणया प्रतीयमानस्य प्रयोजनं स्वप्रयोज्यान्योन्योपमानोपमेयभाव इति ध्येयम् ॥

 अथानन्वयध्वनिरुदाह्रियते--

 दर्शंदर्शं सम्यङ्मर्शंमर्शं मयाऽद्य विश्रान्तम् । भिन्नतया पन्नगपतिसन्नगनेतुस्तुला यतो नैक्षि ॥

 अत्र भिन्नतया तुला नैक्षीत्यनेन अभिन्नतया ऐक्षीति ध्वन्यते ॥

 यथा वा--

 कति कति न सन्ति गिरयः कतमो दध्रेऽच्युतेन चरमाङ्गे । प्रादुरकरोच्च कमलां येनान्ये मन्दरस्य सदृशास्स्युः ॥ १५१ ॥

 अत्र को वा मन्दरेतरो महीधरो भगवता चरमाङ्गे धृतः को वा श्रियमब्धेः प्रादुरभावयत् येनान्ये गिरयो मन्दरसदृशास्स्युरित्यर्थेन तस्य पुनर्भगवता चरमाङ्गधृतत्वे श्रीप्रादुर्भावयितृत्वे च स एव तत्तुल्य इत्यर्थोऽनन्वयात्मा मन्दरनिरुपमत्वपर्यवसायी अन्यपदमहिम्ना व्यज्यते ॥

 एवं--

 परमं पदमपि हित्वा चिरमवसत्कस्य शिख-