पृष्ठम्:अलङ्कारमणिहारः.pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
84
अलंकारमणिहारे

यार्धे ‘तत्र तस्येव' इति वतेस्सत्त्वाच्छ्रौतस्तद्धितगः पूर्ण इति ध्येयम् । लुप्तेष्वपि धर्मलुप्तः पञ्चविधोऽपि संभवति, स च प्रागुक्तपद्ययोरेव धर्मवाचकपदमपनीय कमला यथैव कमलेत्यादिरीत्या पदान्तरन्यासे भविष्यति ॥

 वाचकलुप्तोऽपि तथा संभवति, यथा--

 वेङ्कटभूमिधरोऽयं वेङ्कटभूमीधरायते सुमहान् । तत्र वसन् भगवानपि तत्रवसद्भगवदुज्ज्वलो जयति ॥

 अत्र क्यङ्समासयोर्वाचकलुप्तः--

 वृषभाद्रिनाथदर्शं वृषभाचलनाथमग्रतः पश्यन् । विततप्रमोदबाष्पस्सततं नन्दामि मन्नन्दम् ॥ १३९

 वृषभाद्रिनाथमिव वृषभाद्रिनाथदर्शं पश्यन् अहमिव सन्नन्दं नन्दामि । अत्र कर्मकर्तृणमुलोर्वाचकलुप्तः ॥

 कौस्तुभति कौस्तुभोऽयं लक्ष्माणति लक्ष्म हारति च हारः। वक्षसि फणिगिरिबन्धोस्सिन्धोर्दुहिता च सिन्धुदुहितरति ॥ १४० ॥

 अत्र धर्मवाचकयोर्लोपः। अयमेव मालारूपोऽप्यनन्वयः ॥

 सलिलनिधिं गाम्भीर्ये तुलयन्तस्सन्ति कति कति न देवाः । एष तु शेषगिरीशश्शेषगिरीशानुगाम्भीर्यः ॥ १४१ ॥