पृष्ठम्:अलङ्कारमणिहारः.pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
83
अनन्वयसरः (३)

तम् । अर्थिजनेप्सितदाने तीर्थेगिरीश त्वमेव तव सदृशः ॥ १३५ ॥

 तीर्थगिरिरिति शेषाद्रेरेव नामान्तरम् । “सर्वतीर्थमयत्वाच्च तीर्थाद्रिं प्राहुरुत्तमाः' इति वाराहे तन्नामनिर्वचनात् । पूर्वस्मिन् पद्ये सर्वोत्कृष्टत्वरूपो धर्मोऽनुगामी व्यङ्ग्यः, इह तु अर्थिजनेप्सितदाने इति वाच्य इति वैलक्षण्यम् । उभयत्रापि भगवद्विषयकरत्युपस्कारकत्वादलंकारोऽयम् । बिम्बप्रतिबिम्बभावापन्नो धर्मस्त्वत्र नास्ति, तस्मिंश्च सति किंचिद्धर्मावच्छिन्नेन स्वेन सादृश्यस्य धर्मान्तरावच्छिन्ने स्वस्मिन्नन्वये बाधकाभावात्सदृशान्तरव्यवच्छेदाप्रतिपत्तेश्चानन्वय एव न स्यात् । अयं चानन्वयः पूर्णो लुप्तश्चेति तावद्द्विविधः । पूर्णस्तूपमावत् षड्विधोऽपि संभवति ॥

 यथा--

 श्रीश्श्रीर्यथा घनकृपा कमला कमलेव पूर्णसौभाग्या । नाथोऽच्युतेन सदृशोऽच्युत एव हरिर्हितो हरिसदृक्षः ॥ १३६ ॥

 श्रीवेङ्कटाद्रिपतिवद्ध्येश्श्रीवेंकटाद्रिपतिरेव । श्रीश्रीनिवासपदवद्भक्तिर्नश्श्रीनिवासपद एव ॥

 अत्र युग्मे आद्यपादे श्रौतः पूर्णो वाक्यगोऽनन्वयः । द्वितीयपादे समासगश्श्रौतः पूर्णः । इवेन सह समासविधानात् । नाथ इत्याद्यच्युत एवेत्यन्ते आर्थस्समासगः पूर्णः। शिष्टे तुरीयपादे हरिरित्यादौ समासग आर्थः पूर्णः । द्वितीयश्लोकाद्यार्धे ‘तेन तुल्यम्' इति वतेस्सत्त्वादार्थस्तद्धितगः पूर्णः । तद्द्विती-