पृष्ठम्:अलङ्कारमणिहारः.pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
85
अनन्वयसरः (३)

 अत्र वाचकधर्मोपमानानां लोपः । अत्र चोपमानलुप्तादयोऽन्ये भेदास्त्वसंभवादचारुत्वाच्च नोदाहृताः ॥

 इदं तावदत्रावधेयम्--प्रायेणोपमादिरलङ्कारो यदा समग्रेण वाक्येन प्रधानतया ध्वन्यते तदा परास्तालङ्कारभावो ध्वनिव्यपदेशभाग्भवति । अस्मिंश्चालंकारव्यपदेशः कदाचिदप्यलङ्कारभावमनापन्नेषु समुद्गकाद्यन्तर्निहितेषु हारकेयूरकटककुण्डलादिष्विवालंकुर्वाणहारादिगतधर्ममात्रसंस्पर्शनिबन्धनः । तत्रादावुपमाध्वनिरुदाहार्या । एषा चोपमा क्वचिच्छब्दशक्तिमूलानुध्वननविषयः, क्वचिदर्थशक्तिमूलानुध्वननविषयः ॥

 तत्राद्या यथा--

 कटकोज्ज्वलपुन्नागो गन्धर्वकुलैरुदीर्णसौभाग्यः ।धरणीभृच्चूडामणिरनणीयश्श्रीनिवासतां धत्ते ॥

 कटकेषु सानुषु राजधानीषु च उज्ज्वलाः पुन्नागाः तरुविशेषाः पुंगजाश्च यस्य स तथोक्तः । ‘कटकं वलये सानौ राजधानीनितम्बयोः' इति विश्वः । गन्धर्वाणां देवयोनिविशेषाणां तुरगाणां च कुलैः । धरणीभृतां गिरीणां नृपाणां च चूडामणिः अनणीयान् श्रीनिवासो यस्मिन् तस्य भावं अनणीयस्याः श्रियः संपदः निवासतां धत्ते ॥

 यथा वा--

 तापातुरा निकामं तमसा प्रत्यस्तदृष्टयः स्थित्वा । दैवाद्विधूदये सति नन्दन्तितरां द्विजाः कतिचिदेव ॥ १४३ ॥