पृष्ठम्:अलङ्कारमणिहारः.pdf/९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
3
उपोद्घातः

उल्लासीनि उल्लासवन्ति यानि ललितानि विलासविशेषाः तैः मधुरतमम् । यद्वा-अन्योन्यानुगुणाधिकविकस्वरोल्लासोऽस्या स्तीति तथोक्तं भिन्नं पदम् । ललितमधुरतमं विश्वालङ्करणं सकललोकविभूषणभूतं सदातनं मिथुनं श्रीश्रीनिवासरूपं मम हृदि विभातु ।

 पक्षे--अन्योन्यं अनुगुणः अधिकं विकस्वरः उल्लासश्चेत्येतेऽलङ्कारा अस्मिन् सन्तीति तथोक्तम् । ललितेन ललितनाम्नाऽलङ्कारेण मधुरतमं विश्वं सर्वं अलङ्करणं अलङ्कारशास्त्रमित्यर्थः । यद्वा--‌विश्वानि अलङ्करणानि यस्मिन् विषयविषयिभावसम्बन्धेन सन्ति तत्तथोक्तं तद्रूपं मिथुनमिति योजना । स्पष्टमन्यत् । विवक्षितसूचनायायं श्लेषसंरम्भः ॥ ४ ॥

 युक्त्युल्लेखविचित्रप्रौढोक्तिनिदर्शनातिगम्भीरान् । सपरिकरसमाधिविधीन्वचसाऽलंकृतिमणीन्गुरून्कलये ॥ ५ ॥

 युक्तीनां उल्लेखेन ऊहेन विचित्रा आश्चर्यावहाः याः प्रौढाः प्रगल्भाः उक्तयः तासां निदर्शनेन प्रकाशनेन अतिगम्भीरान् सपरिकरः यमनियमादिपरिकरसहितः समाधिविधिः ध्यानविधानं येषां तान् अनारतपरब्रह्मध्यानबद्धादरानित्यर्थः । विशेषणद्वयेन ‘द्वे विद्ये वेदितव्ये’ इत्युक्तपरावरज्ञानोपादातृत्वं सूचितम् । कृतिमणीन् विद्वद्वरिष्ठान् गुरून् लक्ष्मीनाथाद्यस्मदाचार्यपर्यन्तान् अलं वचसा कलये स्तौमीत्यर्थः ।

 पक्षे--युक्तिः उल्लेखः विचित्रं प्रौढोक्तिः निदर्शनेत्येतैरलङ्कारविशेषेैः अतिगम्भीरान् परिकरः समाधिः विधिरित्येतैरल-