पृष्ठम्:अलङ्कारमणिहारः.pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
अलंकारमणिहारे

ङ्कारैस्सह वर्तन्त इति तथोक्तान् गुरून् श्रेष्ठान् अलङ्कृतयो मणय इव अलङ्कृतिमणयः तान् वचसा कलये ग्रथ्नामीत्यर्थः । अत्र सूच्यार्थस्य श्लेषेण सूचनम् ॥ ५ ॥

 वकुलसरालङ्कारं सकलभवामयभरागदङ्कारम् । अशठान्तरङ्गसेव्यं शठारिमभ्येम्यहं दृढाभक्तिः ॥

 दृढा भक्तिर्यस्य सः दृढभक्तिः । अत्र दृढाशब्दस्य न पुंवद्भावः ‘स्त्रियाः पुंवत्' इत्यादिना पुंवद्भावविधौ ‘अपूरणीप्रियादिषु’ इति पर्युदस्ते प्रियादौ भक्तिशब्दस्य पाठात् । अत्राप्यलंकारशब्देन वक्ष्यमाणसूचनम् ॥ ६ ॥

 उपमोत्प्रेक्षागोचरमुद्धृतविषमप्रतीपदृष्टान्तम् । नाथमुनिं कलयेऽलं क्रियावतां ब्रह्मवेदिनां मान्यम् ॥ ७ ॥

 उपमोत्प्रेक्षायाः साम्यसम्भावनायाः अगोचरं असदृशमिति यावत् । उद्धृताः निर्मूलिताः विषमैः प्रतीपैः प्रतिमतकथकैः दृष्टाः अन्ताः निश्चयाः तेषां दृष्टान्ताश्शास्त्राणि वा येन तं निरस्तसकलविमतसिद्धान्तमित्यर्थः । ‘अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे’ इति रत्नमाला, ‘दृष्टान्तावुभे शास्त्रनिदर्शने' इत्यमरः । पक्षे--उपमोत्प्रेक्षे अलङ्कृती गोचरौ प्रतिपाद्यौ यस्य तं उद्धृताः स्थापिताः विषमं प्रतीपं दृष्टान्त इत्येतेऽलङ्कारा येन तं, अलं पर्याप्तं यथा स्यात्तथा क्रियावतां अननुसंहितफलकर्मानुष्ठानशालिनां अतएव ब्रह्मवेदिनां ब्रह्मविदां मान्यम्, अनेन