पृष्ठम्:अलङ्कारमणिहारः.pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
78
अलंकारमणिहारे

करम्भितः शरदम्बुदकलशाम्बुधिवीचिरूपः परस्परं बिम्बप्रतिबिम्बभावमापन्नो धर्मः ॥

 केवलं वस्तुप्रतिवस्तुभावापन्नो यथा--

 कमलालयाकपोलौ विमलौ सुस्निग्धवज्रमुकुरसखौ । सुस्निग्धवज्रमुकुरौ सुविमलकमलालयाकपोलनिभौ ॥ १२३ ॥

 अत्र विमलत्वसुस्निग्धत्वयोः केवलं वस्तुप्रतिवस्तुभावः ॥

 उपचरितो यथा--

 मधुमथनभक्तचरणा विधुकिरणा इव जगद्विशदयन्ति । विधुकिरणा इव शिशिरिममसृणा मधुमथनभक्तचरणाश्च ॥ १२४ ॥

 अत्र शिशिरिममसृणा इत्येतत्पूर्वार्धेऽप्यन्वेतव्यम् । शिशिरिममसृणा विशदयन्तीति चोपचरितः । भक्तचरणा इत्यत्र चरणशब्दो गुरुचरणा इत्यादाविव पूज्यवाची ॥

 श्लेषात्मको यथा--

 विकसितपुष्करविसृमरतररसशीकरतरङ्गितात्मरुचिः।. करिणी वा पुष्करिणी पुष्करिणीवाहिशैलगा करिणी ॥ १२५ ॥

 अहिशैलगा पुष्करिणी स्वामिपुष्करिणी करिणी वा, वाशब्द उपमावाचकः । विकसितानि यानि पुष्कराणि कमलानि