पृष्ठम्:अलङ्कारमणिहारः.pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
79
उपमेयोपमालंकारसरः (२)

तेभ्यः, अन्यत्र विकसितं यत्पुष्करं शुण्डाग्रं तस्मात् विसृमरतरैः रसशीकरैः मकरन्दकरैः सलिलकणैश्च तरङ्गिता अतिशयिता आत्मनो रुचिः प्रभा स्वादुता च यस्यास्सा तथोक्ता । अत्र विकसितेत्यादिश्लेषरूपः पुष्करिणीकरिण्योस्समानधर्मः ॥

 व्यङ्ग्यधर्मा यथा--

 कल्पलतेवाम्भोनिधिसुताऽब्धिदुहितेव हन्त कल्पलता । नन्दनवनमिव शौरेर्हृदयं हृदयमिव नन्दनवनं च ॥ १२६ ॥

 इयमेव परम्परितरूपाऽपि । एवं घनपतिरिवेति प्रागुदाहृते पद्येऽपि । एषा सर्वाऽपि स्फुटे वाक्यभेदे प्रपञ्चिता ॥

 आर्थे तु वाक्यभेदे यथा--

 यद्वेङ्कटगिरिभाग्यं सौभाग्यं दौग्धसैन्धवं यदपि तन्मिथुनं भवनेऽस्मिन्नुन्मिषति परस्परोपमैश्वर्यम् ॥

 अत्र परस्परोपमैश्वर्यमिति संक्षिप्ताद्वाक्यादिदमीयमैश्वर्यमेतदीयेनैश्वर्येण एतदीयमिदमीयेन च सदृशं भवतीति वाक्यद्वयं विवरणरूपमुन्मिषति । सौभाग्यं दौग्धसैन्धवमित्यत्र हृद्भगसिन्ध्वन्ते’ इत्युभयपदवृद्धिः । एवं पूर्णालुप्तादयोऽप्यस्या उपमाया इव प्रायशस्सर्वेऽपि भेदास्सम्भवन्ति ॥

 तत्र दिङ्मात्रमुदाह्रियते--

 नीतिर्यथा विनीतिर्यथा विनीतिस्तथैव नीति-