अत्र वननिधिबालावनमालयोर्वाक्यभेदेन उपमानत्वमुपमेयत्वं च वर्णितम् । तत्र प्रथमे वाक्ये श्रिय उपमानत्वं वनमालाया उपमेयत्वं द्वितीये तु व्यत्ययेनेति लक्षणसमन्वयः । लक्ष्मीवनमालयोः कस्याश्चित्कयाचित्सादृश्येऽभिहिते तस्या अप्यन्यया सादृश्यमर्थसिद्धमपि कण्ठरवेणाभिधीयमानं तृतीयसदृशव्यवच्छेदं फलति । अत्रोदाहरणे प्रकृतयोरेवोपमानोपमेयत्वकल्पनं, प्रकृताप्रकृतयोरप्येषा सम्भवतीति कुवलयानन्दे स्थितम् ॥
तत्रेदमुदाहरणम्-
घनपतिरिव भुवनपतिर्भुवनपतिरिवैष घनपतिर्लसति। चपलेवैषा कमला कमलेव चकास्ति चपलाऽपि ॥ १२१ ॥
भुवनपतिः भगवान्, चपला विद्युत् । अत्र भुवनपतिः कमला च प्रकृतौ, एषः एषेति निर्देशात् । इयं च तावद्द्विविधा ‘उक्तधर्मा व्यङ्ग्यधर्मा चेति । उक्तधर्मा तावदनुगाम्यादिभिः प्रागुक्तैर्धर्मैरनेकधा । तत्रानुगामी धर्मस्त्वव्यवहितोदाहरणे लसति चकास्तीत्युक्त एव ॥
बिम्बप्रतिबिम्बभावापन्नो धर्मो यथा--
शरदम्बुदपरिवीतः कलशाम्बुधिराजवीचिमध्यगतः । भुज्जगधरो मन्दर इव स मन्दरो भुजगधर इव विभायात् ॥ १२२ ॥
विभायादिति सम्भावनायां लिङ् । अत्र परिवीतत्वमध्यगतत्वाभ्यां विशेष्याभ्यां परस्परं वस्तुप्रतिवस्तुभावमापन्नाभ्यां