हरे इति करिवरदत्वाभिप्रायकं, हर्यवतार एव गजेन्द्रमोक्षणात् । अत्र विनिमग्नत्वलग्नत्वयोर्वस्तुप्रतिवस्तुभावः, तद्विशेष्यकयोः वृजिनव्रजमकरमुखयोर्बिम्बप्रतिबिम्बभावः । तदवलम्बनेनसीदामीत्यनुगामी प्राप्तसत्ताक इत्यनयोर्मिश्रणम् । न च विनिमग्नत्वलग्नत्वयोर्विभिन्नत्वान्न वस्तुप्रतिवस्तुभावस्सम्भवतीति वाच्यम् । वृजिनव्रजे निमज्जनस्यासम्भवात्तत्रापि सम्बन्धमात्रस्यैव विवक्षणेन तयोरेकरूपत्वात् ॥
यथावा--
अविरळदळकुसुममयस्तबकस्तिमितो द्विरेफराज इव । घनघृणिहरिमणिमयफणिशिखरिविलीनो हरिर्मनो हरति ॥ १११ ॥
अत्र अविरळत्वघनत्वयोर्वस्तुत एकरूपयोरपि शब्दद्वयेनोपादानाद्वस्तुप्रतिवस्तुभावः । तद्विशेषणकानां दळानां घृणीनां च । एवं स्तिमितत्वविलीनत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकयोः कुसुममयस्तबकहरिमणिमयफणिशिखरिणोश्च बिम्बप्रतिबिम्बभाव इति तत्करम्भितोऽयं धर्मो मनोहरणे अनुगामिनि धर्मे अभेदमासाद्य स्थित इत्यनयोर्मिश्रणम् । पूर्वोदाहरणद्वये विशेष्ययोर्वस्तुप्रतिवस्तुभावः । इह तु विशेष्यस्य विशेषणस्य चेति द्विविधो वस्तुप्रतिवस्तुभाव इति भिदा ॥
क्वचिद्धेतुहेतुमद्भावेन यथा--
सौलभ्यजनिस्थानं सेव्यस्सर्वैर्नरैस्सरोजाक्षः । सौरभ्यजन्मभूमिस्सरसीरुहनिवह इव मधुकरौघैः ॥