पृष्ठम्:अलङ्कारमणिहारः.pdf/७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
69
उपमालंकारसरः (१)

न्यधर्मस्सम्राड्भगवतोर्बिम्बप्रतिबिम्बभावमुपजीव्याधिगतसत्ताकमिति ध्येयम् ।

 यथावा--

 फणिशैलनाथ मसृणितमणिवरमौक्तिकसरो हरे भवतः । प्रतिभाति हृदयदेशः प्रतिबिम्बितचन्द्रतार इव सिन्धुः ॥ १०८ ॥

 मणिवरः कौस्तुभः । एवं पूर्वमुदाहृते ‘आनन्दनिलय ’ इति पद्येऽपि मिश्रणं द्रष्टव्यम् । इदं शुद्धबिम्बप्रतिबिम्बभावानुगामिनोर्मिश्रणम् ॥

 अनुगामित्ववस्तुप्रतिवस्तुभावकरम्भितबिम्बप्रतिबिम्बभावयोर्धर्मयोर्मिश्रणं यथा--

 उपसृप्यते जनैरभ्युदितस्त्वज्ज्ञानभजनवैराग्यैः। पादप इव परमात्मन्प्रसूनफलपल्लवैस्समुल्लसितः ॥

 अभ्युदितः अभ्युदयं प्राप्तः । अत्राभ्युदितत्वसमुल्लसितत्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यकाणां भगवज्ज्ञानभजनवैराग्याणां प्रसूनफलपल्लवानां च बिम्बप्रतिबिम्बभाव इति तत्करम्भितोऽय धर्म उपसर्पणे अनुगामिनि धर्मे अभेदमापन्नः ॥

 यथावा--

 वृजिनव्रजविनिमग्नो गज इव सीदामि मकरमुखलग्नः । त्वामन्तरेण को मे कामं क्षेमंकरो हरे भविता ॥ ११० ॥