पृष्ठम्:अलङ्कारमणिहारः.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
71
उपमालंकारसरः (१)

 अत्र जनिस्थानत्वजन्मभूमित्वयोर्वस्तुप्रतिवस्तुभावः । तद्विशेष्यके सौलभ्यसौरभ्ये बिम्बप्रतिबिम्बभावापन्ने सरोजाक्षसरसीरुहनिवहयोस्सेव्यत्वेऽनुगामिनि हेतुः । इदं मिश्रणं शुद्धबिम्बप्रतिबिम्बभावेऽपि भवतीति ध्येयम् ॥

 अनुगामित्वश्लेषयोर्मिश्रणं यथा--

 नरसिंहगिरिवरोऽयं शिरसा सुकलाभिपूर्णविधुबिम्बम् । उदयाद्रिरिव दधानः प्रददात्यानन्दमखिललोकानाम् ॥ ११३ ॥

 सुकलाभिपूर्णं ‘मन्त्रमन्त्रेश्वरन्यासात्साऽपि षाड्गुण्यविग्रहा’ इत्युक्तरीत्या सकलकलापरिपूर्णमिति भगवद्बिम्बपक्षेऽर्थः । अन्यत्र तु स्फुट एव विधुबिम्बं श्रीनिवासार्चां

सर्वातिशायि षाड्गुण्यं संस्थितं मन्त्रबिम्बयोः ।
तेनार्च्यो भगवान् साक्षान्नोपचारधिया क्वचित् ॥

इति भगवच्छास्त्रवचनान्यत्रानुसन्धेयानि । अन्यत्र चन्द्रबिम्बमित्यर्थः । अत्र सुकलाभिपूर्णविधुबिम्बशब्दश्लेषोपजीवनेन प्राप्तात्मस्थितिकमखिललोकानन्दप्रदत्वमनुगामी साधारणो धर्मः ॥

 श्लेषवस्तुप्रतिवस्तुभावबिम्बप्रतिबिम्बभावमिश्रणं यथा--

 वैशद्यं नैति नरो विद्यां संशिक्षितोऽप्यसुरशीलः। शाणोल्लिखितोऽप्यच्युत मलिनप्रकृतिर्यथेङ्गालः ॥ ११४ ॥