पृष्ठम्:अलङ्कारमणिहारः.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
56
अलंकारमणिहारे

 पुरा पुंगवसि पुंगव इवाचरसि ‘पुरि लुङ्चास्मे' इति पुराशब्दयोगाद्भूते लट् । गाव इवाचरन्त्यः गवन्त्यः तासाम् । करेणुरिवाचरसि करेणवसि करिण्य इवाचरन्त्यः करिणयन्त्यः तासाम् । वल्ल्य इवाचरन्तीति वल्लयन्त्यः तासाम् । सर्वत्राचारार्थे क्विप् । अत्र गोपिकानां गवादिभिरुपमा भगवतः पुंगवाद्युपमाया उपाय इत्युपमा एतास्संजातपरम्परा मालारूपाः केवलं शुद्धाः ॥

 यथा वा--

 नयगहनस्य पथीनति परविद्याजलनिधेर्मथीनति च । कृतमतिदिविषद्विततेः कृष्ण ऋभुक्षीणति त्वयि प्रणतः ॥ ८२ ॥

 हे कृष्ण त्वयि प्रणतो जनः नयः शास्त्रं तत् गहनमिव दुरवगाहं वनमिव नयगहनमित्युपमितसमासः, पथीनतीत्युपमानाल्लिङ्गात् । न तु मयूरव्यंसकादिः । तस्येहानुपयोगात् । तस्य पथीनति पन्था इवाचरति पथीनति ‘उपमानादाचारे' इति क्विप् । ‘अनुनासिकस्य क्विझलोः' इत्युपधादीर्घः । एवमग्रेऽपि । अनेन ‘तत्रापरा ऋग्वेदः' इत्याद्युक्तापरविद्याप्रवक्तृत्वं सूचितम् । परविद्या ‘अथ परा यया तदक्षरमधिगम्यते’ इत्युक्ता ब्रह्मविद्या । जलधिरिवेति पूर्ववत्समासः । तस्य मथीनति मन्था इवाचरति । अनेन ब्रह्मविद्यासर्वस्वपरामर्शित्वं सूचितम् । अत एव कृतमतयः वैज्ञानिकाः दिविषद इव तेषां विततेः ऋभुक्षा इवाचरतीति ऋभुक्षीणति । अत्र नयपरविद्याकृतमतीनां गहनजलनिधिदिविषदुपमाः भगवत्प्रणतस्य पथिमथिलऋभुक्ष्युपमानामुपाया इत्युपमा एताः पूर्ववदेव परंपरिताः मालारूपाश्शुद्धाश्च । अत्र ‘पथिमथ्यृभुक्षाम्’ इति सूत्रनिबद्धपथ्यादि-