पृष्ठम्:अलङ्कारमणिहारः.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
55
उपमालंकारसरः (१)

इत्युक्तप्रकारसर्वविधशुद्धिमतो विप्रान् कल्याणानां सुवर्णानां मङ्गळानां च 'कल्याणं हेम्नि मङ्गळे’ इति हेमचन्द्रः । अत्र श्लेषोपस्थापिताभ्यां हंससुवर्णाभ्यां शुद्धविप्रमङ्गळयोरुपमे शरदागमसुमेरुभ्यां भगवत उपमयोरुपायः । पूर्वोदाहरणयोर्धर्मोनुक्तः इह तूक्त इति भिदा । यद्यपि ‘सत्त्वस्य’ इति प्राथमिकोदाहरणे भासीत्यनेन साधारणधर्म उपात्त इव भाति । तथाऽपि तत्रावश्यं विवक्षितानां पोषणनिर्वापणनिश्शेषनिवर्तनानामेव समानधर्मतायास्स्वारसिकतया केवलभानस्यातथात्वेनाचमत्कारितया च स न विवक्षित इति ध्येयम् । किं च पूर्वोदाहरणयोर्बहूनां मालारूपता अन्तिमोदाहरणे द्वयोरिति भेदः। आद्ययोरपि परस्परं भेदः अनुपदमेव स्फुटीभविष्यति ॥

 केवलं शुद्धपरंपरिता यथा--

 अहिपतिगिरिपतिहृदये प्रहसितलसितासिताम्बुजात इव अलिसंहतिरिव विलसति तुलसीदलसम्भृता माला ॥ ८० ॥

 प्रहसितेति भावे क्तः । प्रहसितेन विकासेन लसिते असिताम्बुजे इन्दीवर इत्यर्थः । तुलसीदलमालाया अलिसंहत्या उपमा भगवद्वक्षस्थलस्येन्दीवरोपमायास्साधिकेत्युपमाद्वयमपि संजातपरंपरम् ॥

 केवला मालारूपा शुद्धपरंपरिता यथा--

 पुंगवसि गवन्तीनां पुरा करेणवसि करिणयन्तीनाम् । नन्दव्रजसुदतीनां चन्दनसि मुकुन्द वल्लयन्तीनाम् ॥ ८१ ॥