पृष्ठम्:अलङ्कारमणिहारः.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
57
उपमालंकारसरः (१)

शब्दार्थानामुपमानविधया क्रमेण निबन्धनाद्वक्ष्यमाणरत्नावळ्यलङ्कारेण सङ्कीर्णत्वं पूर्वोदाहरणाद्विशेषः ॥

 एवमुपमानयोरन्योन्यमुपमेययोश्चानुकूल्ये उपमेययोरेषोपायता निरूपिता ॥

 प्रातिकूल्ये उपायता यथा--

 जलदायते सदा खलु निदाघदावाग्निदाहते महते । द्विपदां कुलाय विपदां पृदाकुवरगिरिमदावळेन्द्रोऽयम् ॥ ८३ ॥

 निदाघदावाग्निदाहवदाचरते महते द्विपदां मनुजानां सम्बन्धिने विपदां कुलाय जलदायते जलद इवाचरति । पृदाकुवरगिरिश्शेषाद्रिः तस्य मदावळेन्द्रः तत्त्वेनाध्यवसितश्श्रीनिवास इत्यर्थः । अत्रोपमानयोर्दवाग्निदाहजलदयोरन्योन्यमुपमेययोश्च मनुजविपत्फणिशिखरिनाथयोः प्रातिकूल्येऽपि उपमयोः परस्परमानुकूल्यादुपायतैव ॥

 इयं मालारूपतायामपि भवति । यथा--

 सुत्रामाणसि महतां सपक्षशेखरीणतां सुरद्विषताम् । पूषाणसि हिमतामिह राजानसि तमसतां च शौरे त्वम् ॥ ८४ ॥

 सुत्रामेवाचरसि सुत्रामाणसि सुत्रामन्शब्दात् 'सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विपि ‘अनुनासिकस्य क्विझलोः' इत्युपधादीर्घः । एवं शिखरीणतामित्यादावपि । सप-

ALANKARA
8