पृष्ठम्:अलङ्कारमणिहारः.pdf/५२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
520
अलंकारमणिहारे

अविद्यायामन्तरे वर्तमानास्स्वयं धीरः पण्डितंमन्यमाना ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनेव नीयमाना यथाऽन्धाः ॥

इत्याद्युक्ते स्वतन्त्रात्मभ्रममूलके गर्वापरनामन्यभिमने । येन जरारोगाद्यनेकानर्थव्रातैर्भृशं हन्यमाना मूढास्संसारे भ्रमन्ति प्राणिनः । विलीने सति । अयं अहमित्यर्थः । स्वस्यैव विनयातिशयेन अन्यतया निर्देशः । प्रकृतिस्थः प्रकृतिः स्वाभाविकशेषता तस्यां तिष्ठतीति तथोक्तः--

दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः ।

इत्याद्युक्तस्वाभाविकशेषत्वानुसंधातेत्यर्थः । आसमिति शेषः । ततः इयं धीः मदीया एषा मतिः परे देवे त्वयि विलीयते त्वदाकाराकारिता भवतीत्यर्थः । अहंकारादिमलराहित्येन शुद्धान्तःकरणतया स्वाभाविकशेषतानुसंधातुर्मम सर्वग्रन्थिविप्रमोक्षहेतुभूता ध्रुवाऽनुस्मृतिर्भवतीति भावः । अत्र-

लीयते ब्रह्मणि मतिर्निर्ममस्यानहंकृतेः। इति,
मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥

इत्यादिकं च स्मार्यते ।

 पक्षे- तव ईक्षणात् संकल्पात् सहकार्ये एकादशेन्द्रियशब्दादितन्मात्राकाशादिभूतपञ्चकात्मककार्यैस्सहिते अहंकारे सात्त्विकाद्यहंकाराख्ये तत्त्वे महति महत्तत्वे स्वकारणभूते विलीने सति अयं महान् महत्तत्त्वमित्यर्थः । प्रकृतिस्थः मूलप्रकृतौ विलीन इत्यर्थः । इयं प्रकृतिः अव्यक्ताद्यपरपर्याया ततः अनन्तरं परे देवे परस्मिन् ब्रह्मणि त्वयि लीयते । क्रमादक्षरत्वतमस्त्वावस्थापन्ना सती एकीभवतीत्यर्थः । अत्र वेदान्तशास्त्रीयभगवद्भक्तिव्यवहारे प्रस्तुते अप्रस्तुतस्य तच्छास्त्रीयस्यैव 'अहंकारो महति विलीयते