पृष्ठम्:अलङ्कारमणिहारः.pdf/५२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
521
समासोक्तिसरः (२५)

महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते तमः परे देव एकीभवति' इति श्रुत्युक्तप्रलयव्यवहारस्यारोपः ॥

 लौकिके व्यवहारे शास्त्रीयव्यवहारारोपो यथा-

 हारास्तव प्रतीकालम्बनभाजो यथोचितगुणाढ्याः । मुञ्चन्त्यर्चिस्सरणिं दूरान्नारायणाचलसुधांशो ॥ ७८५ ॥

 हं नारायणाचलसुधांशो! नारायणाचल इति शेषाद्रेरेवनामान्तरमित्यवोचाम । तव प्रतीकः वक्षोरूपोऽवयवः तस्य आलम्बनमाश्रयणं प्रतीकरूप आश्रयो वा तद्भजन्तीति तथोक्ताः । यथोचिताः यथार्हाः ये गुणाः सुवर्णादितन्तवस्तैः आढ्याः अभिरूपा इति यावत् । हाराः मुक्तादिरत्नमयाः सरा अर्चिस्सरणिं रोचिःपरंपरां ‘सरणिः पङ्क्तिवर्त्मनोः' इति रनमाला । दूरात् मुञ्चन्ति प्रसारयन्तीति यावत् ।

 पक्षे- प्रतीकालम्बनभाजः नामादिप्रतीकोपासकाः अत एव यथोचितगुणाढ्याः यथाक्रतुनयेन उपासनानुगुणयत्किंचिद्गुणसंपन्नाः न तु साक्षाद्ब्रह्मोपासकवदाविर्भूतापहतपाप्मत्वादिब्राह्मगुणा इति भावः । अर्चिस्सरणिं अर्चिरादिमार्गं दूरात् मुञ्चन्ति 'अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च' इति सूत्रेण भगवता बादरायणेनाप्रतीकालम्बनानामेवार्चिरादिगतेर्निर्णीतत्वेन प्रतीकोपासकानां तस्या असंभवादिति भावः । प्रतीकोपासनं नाम अब्रह्माणि नामादौ ब्रह्मदृष्टिः यद्विधीयते

'नाम ब्रह्मेत्युपासीत’ इत्यादिभूमविद्यादौ । अत्र लौकिके भगवन्मुक्ताहारव्यवहारे प्रस्तुते अप्रस्तुतवेदान्तशास्त्रीयव्यवहारारोपः ॥

 ALANKARA
66