इदं कस्यचित्प्रपित्सोर्वचनम् । तथाहि- श्रीकान्तस्य श्रीनिवासस्य निषेवणतः प्रपदनात् मम पाप्मा विद्याधिगमादुत्तरं पूर्वं चाघं शान्तः अश्लिष्टो विनष्टश्च ‘आशंसायां भूतवच्च' इत्याशंसायां भूते क्तः । न श्लिष्यति विनश्यतीत्याशंसाविषयभूत इत्यर्थः । तत्र हेतुमाह-एष इत्यादिना । यतः यस्मात्कारणात् । एषः अहं धुता विनष्टा तान्तिः अशनायापिपासादिग्लानिः यस्य सः। दीप्ता या अर्चिस्सत्करणश्रीः अर्चिरादिसत्कारसंपत् तया सुभगः दीप्यमानार्चिराद्यातिवाहिकपुरस्करणसौभाग्यवान् सन् अन्नादतेच्छुः अन्नादतां ‘अहमन्नादोऽहमन्नादः' इति श्रुतिप्रथितपरिपूर्णब्रह्मानुभवानन्दं इच्छुः अभिलाषुकः अस्मि । यतोऽहमशनायादिग्लान्यतीतोऽर्चिरादिपथेन परमं पदं प्रपन्नः परिपूर्णपरब्रह्मानुबुभूषुर्भवामि तदाशंसे ममोत्तरपूर्वाघाश्लेषविनाशौ संपद्यते इतीति भावः ।
पक्षे-श्रीयुक्तं च तत् कान्तं च श्रीकान्तं कान्तभस्म ‘विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपः' इति भस्मशब्दस्य लोपः।
कान्तं तु शीतं मधुरं कषायमायुष्करं धातुविवर्धनं च । |
इति योगरत्नाकरे कान्तभस्मनः कान्तमिति व्यपदेशदर्शनात् । तस्य निषेवणतः उपयोगात् मम पाप्मा ज्वरः ।
ज्वरो रोगपतिः पाप्मा मृत्युरोजोऽशनोऽन्तकः । |
इति बाहटेन पाप्मशब्दस्य तन्नामसु पाठात् । इदमुपलक्षणं पाण्डुरोगादीनाम् । शान्तः गत एवेत्यर्थः । यतः यस्मात् एष जनः अहमित्यर्थः । विधुततान्तिः विगळितग्लानिः दीप्तार्चिः प्रज्वलज्जाठराग्निः सती प्रशस्ता या करणश्रीः इन्द्रियसौष्ठवं तया सुभगः अन्नदतायां ओदनाशने इच्छुश्चास्मि । इदमुपल-