पृष्ठम्:अलङ्कारमणिहारः.pdf/५२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
517
समासोक्तिसरः (२५)

स्वयमेव ज्वरहारिणी ज्वरहरवैष्णवरसमेळने तद्गुणोत्कर्षः किंपुनर्न्यायसिद्धः इति भावः । आमज्वरादिकं आमज्वरो नाम-

ज्वरोपद्रवतीक्ष्णत्वमग्लानिबहुमूत्रता ।
न प्रवृत्तिर्न विड्जीर्णा न क्षुत्साऽऽमज्वराकृतिः ॥

इति बाहटोक्तलक्षणः स अदिर्यस्य तम् । ज्वरोपद्रवाश्च दशविधाः । यथोक्तं तेनैव-

श्वासमूर्छारुचिच्छर्दितृष्णातीसारनिद्रिताः ।
हिक्काकासाङ्गभेदाश्च ज्वरस्योपद्रवा दश ॥

इति । आदिशब्देन-

ज्वरवेगोऽधिकं तृष्णा प्रलापश्श्वसनं भ्रमः ।
मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥

इत्यादितदुक्तपच्यमानज्वरादिकं गृह्यते । शमयेत् । तथाचोक्तं वैद्यचिन्तामणौ-

भूनिम्बाश्चित्रकं चव्यं शरपुङ्खी गुडूचिका ।
विष्णुक्रान्ता शृङ्गिबेरं क्वाथस्सर्वज्वरापहः ॥

इति, शृङ्गिबेरमित्येषां क्वाथ इत्यध्याहारेण योज्यम्-

द्वंद्वज्वरं सन्निपातं पुराणं विषमज्वरम् ।
नाशयेदखिलं घोरं नाम्नऽयं वैष्णवो रसः ॥

इति च । वैष्णवरसलक्षणादिकं तत्रैव द्रष्टव्यम् । अत्रापि श्रुतिस्मृतिपुराणागमादिव्यवहारे वैद्यशास्त्रीयव्यवहारारोपः॥

 यथा वा--

 शान्तो मम पाप्मा श्रीकान्तनिषेवणत एष धुततान्तिः । दीप्तार्चिस्सत्करणश्रीसुभगोऽन्नादतेच्छुरस्मि यतः ॥ ७८३ ॥