पृष्ठम्:अलङ्कारमणिहारः.pdf/५२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
516
अलंकारमणिहारे

इत्युक्तेरिति भावः । अत एव पुण्यात्मा नीरोगतया चारुशरीरो भवति । ‘पुण्यं तु चार्वपि' इति, 'आत्मा यत्नो धृतिर्बुद्धिस्स्वभावो ब्रह्म वर्ष्म च' इति चामरः । अत्र पञ्चरात्रवेदान्तशास्त्रीयव्यवहरे वैद्यशास्त्रीयव्यवहारारोप इति पूर्वेभ्यो वैलक्षण्यम् ॥

 यथावा--

 बहुधा कषायिताऽपि च वैष्णवरसमेळनात्तपरभागा । मानसवृत्तिर्विष्णुक्रान्तैषामज्ज्वरादिकं शमयेत् ॥ ७८२ ॥

 एषा मदीयेति भावः । मानसवृत्तिः बहुधा कषायिताऽपि च रागादिकलुषिताऽपि वैष्णवानां मनस्स्थितिः भागवतानां रसः अनुरागः तस्य मेळनेन तदनुग्रहव्यतिकरेणेत्यर्थः । आत्तः उपात्तः परभागः परस्य परमात्मनः भागो भजनं भक्तिः । भजेर्भावे घङ्, उपधावृद्धिः ‘चजोः कुघिण्यतोः इति कुत्वम् । यया सा तथोक्ता । यादृच्छिकादिसुकृतपरिणतिसुलभभागवताभिमानविषयतासंपादितपरब्रह्मभक्तिरित्यर्थः । अत एव विष्णुक्रान्ता भगवदाक्रान्ता सती तदाकाराकारिता सतीति यावत् । मज्ज्वरादिकं मदीयभवतापादिकं शमयेत् । मनोवृत्तेर्भागवतप्रवणत्वे भगवदधिष्ठितत्वे च सकलसांसारिकाभितापनिर्वापणं संभावितमेवेति भावः ।

 पक्षे--एषा विष्णुक्रान्ता प्रसिद्धा । उपलक्षणमिदं भूनिम्बादीनाम् । बहुधा कषायिता कथिता । नैतावदेव, अपिच किंच वैष्णवरसस्य औषधविशेषस्य मेळनेन योजनेन आत्तपरभागा स्वीकृतगुणोत्कर्षा ‘परभागो गुणोत्कर्षे' इति यादवः । विष्णुक्रान्ता