पृष्ठम्:अलङ्कारमणिहारः.pdf/५२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
514
अलंकारमणिहारे

 सौम्यः शुद्धसत्त्वमयतया नित्यप्रसन्नः । बुध इत्यपि गम्यते । ‘सौम्यो ज्ञे ना त्रिष्वनुग्रे मनोज्ञे सोमदैवते' इति मेदिनी । मधुमथनः भगवान् । अनेन तमोगुणनिरसनपटीयस्त्वं द्योत्यते । मधुर्नाम दैत्यो हि मूर्ततमोगुणरूपत्वेन भारतादौ प्रसिद्ध्यति । यदा यस्मिन् काले जीवं प्रत्यगात्मानं वाक्पतिं च । ‘जीवः प्राणिनि वृत्तौ च वृक्षभेदे वृहस्पतौ' इति मेदिनी । संपश्येत् सम्यगवलोकेत । तदा तस्मिन् काले संजातं तं जीवं श्रेयश्चिन्तकं मोक्षार्थचिन्तकम् । पक्षे - तदा बुधस्य वाक्पतिविलोकनावसरे जातं पुमांसं श्रेयश्चिन्तकं सर्वेषां कल्याणानुध्यातारां धर्मचिन्तयितारं वा 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत्' इति मेदिनी । अत एव सत्त्ववतां सात्त्विकानाम्, अन्यत्र बलवतां व्यवसायवतां द्रव्यवतां वा राज्ञामिति यावत् ।

सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः ।
आत्मत्वे व्यवसायासुचित्तेष्वस्त्री तु जन्तुषु ॥

इति मेदिनी । शिरस्पदैः शीर्षस्थानैः मान्यं च आहुः । ‘अधऽश्शिरसी पदे’ इति शिरशब्दविसर्गस्य सत्वम् । सत्त्ववतां शिरस्पदैर्मान्यं श्रेयश्चिन्तकं चाहुरिति वा योजना । अस्यां योजनायां अनुपदोदाहरिष्यमाणवचनार्थातिमात्रानुरूप्यं भवति ।

अत्र-

जायमानं हि पुरुषं यं पश्येन्मधुसूदनः ।
सात्त्विकस्स हि विज्ञेयस्स वै मोक्षार्थचिन्तकः ॥

इति महाभारतीयव्यवहारे प्रस्तुते,

युज्यते वीक्ष्यते वाऽपि चन्द्रजेन बृहस्पतिः ।
शिरसा शासनं तस्य वहन्ति वसुधाधिपाः ॥