पृष्ठम्:अलङ्कारमणिहारः.pdf/५१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
513
समासोक्तिसरः (२५)

प्रपद्य शरणं प्राप्य साधूनां प्रपन्नानां तुलां समतां च यदि विन्देत तर्हि उच्चे ततो लक्ष्म्या अप्युच्चे भगवति गतिः प्रपत्तिः यस्य स तथोक्तस्स्यात् । आदौ श्रियं प्रपद्य ‘अस्तु ते तयैव सर्वं संपत्स्यते’ इति श्रियाऽनुगृंहीतो भगवन्तं प्रपद्यत इत्यर्थः । यद्वा- उच्च ऊर्ध्वलोकनेत्री गतिः अर्चिरादिसरणिगतिः यस्य स तथोक्तः स्यात् । जातु कदाचिदपि नीचगतिः अधोगतिः न तु स्यात् नैव स्यात् । अर्चिरादिना पथा परमं व्योम प्रपन्नस्य श्रीवल्लभचरणारविन्दशरणागतस्य कथं पुनस्संसृतिव्यतिकरस्संपद्येत ‘एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते' इति श्रवणादिति भावः ।

 पक्षे- हरेः सिंहराशेः पुरस्तात् अग्रतः अनन्तरमित्यर्थः । प्रमदां कन्याराशिं प्रपद्य प्राप्य साधु अवक्रं यथा स्यात्तथा तुलां तुलाराशिं यदि विन्देत । तर्हि मन्दः शनैश्चरः 'शनिमन्दौ' इत्यमरः । उच्चगतिरपि स्यात् । तुलायास्तदुच्चस्थानत्वात् न केवलं मित्रराशिगतः अपितूच्चगतिरित्यापिशब्दाभिप्रायः । एवं तुलाराशिगश्शनिः जात्वपि नीचगतिः न तु स्यात् नैव भवेत् । मेषराशेस्तन्नीचस्थानत्वस्मरणात्तुलास्थितस्य तस्य न तत्प्रसक्तिरिति भावः । अत्रापि भगवच्छास्त्रीयादिव्यवहारे ज्योतिश्शास्त्रीयव्यवहारारोपः पूर्ववदेव ॥

 यथावा--

 संपश्येन्मधुमथनस्सौम्यो जीवं यदा तदा संजातम् । श्रेयश्चिन्तकमाहुस्तं सत्त्ववतां शिरस्पदैर्मान्यं च ॥ ७८० ॥

 ALANKARA
65