पृष्ठम्:अलङ्कारमणिहारः.pdf/५१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
510
अलंकारमणिहारे

यति । तस्माद्व्याकोचस्य सक्तुष्वर्थापत्तिवशाद्व्यवस्थेति सिद्धान्तितम् । सामर्थ्यं नाम कारणत्वम्-

सामर्थ्यं स्यात्कारणत्वं मत्तोऽयं मधुना पिकः ।

इति सोदाहरणलक्षणात् । यथा कोकिलमदकारणत्वरूपसामर्थ्ये न मकरन्दादिसाधारणस्य मधुशब्दस्य वसन्तैकदेशे चैत्रमासेऽभिधा नियम्यते, तथाऽत्रापि होमसाधनतारूपसामर्थ्येन संकुचितव्याकोचसाधारणस्याञ्जलिशब्दस्य व्याकोचाञ्जलावभिधा नियम्यत इत्यवधेयम् । अत्र पञ्चरात्रागमादिव्यवहारे कर्ममीमांसाव्यवहारारोपः ॥

 यथावा-

 सेव्यातिथिवारार्चासुभगाऽनघयोगकरणनिपुणात्मा । भक्तततिस्त्वामञ्चति पञ्चाङ्गप्रपदनेन परमात्मन् ॥ ७७८ ॥

 हे परमात्मन्! सेव्याः

सेव्याश्श्रेयोऽर्थिभिस्सन्तः पुण्यतीर्थफलोपमाः ।
क्षणोपासनयोगोपि न तेषां निष्फलो भवेत् ॥

इति च्यवननहुषसंवादोक्तप्रकारगुणवत्त्या सेवनीयाः ये अथिथयः तेषां वाराः व्यूहाः तेषां अर्चया पूजया सुभगा शोभनश्रीः शोभनकीर्तिर्वा ।

दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः ॥
एकग्रामीणमतिथिं न गृह्णीत कदाचन ।
अनित्यमागतो यस्मात्तस्मादतिथिरुच्यते ॥