पृष्ठम्:अलङ्कारमणिहारः.pdf/५१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
509
समासोक्तिसरः (२५)

स्वीकार्य एव । अहो स्वाशक्तता भगवत्परमकारुणिकतानुचिन्तनजनिते हर्षे आश्चर्ये वा । अयं चाञ्जलिः प्रयोजनान्तरपरस्य तत्तत्प्रयोजननिष्पादकः । अनन्यप्रयोजनस्य तु निश्श्रेयसपर्यन्तपरमपुरुषार्थप्रद इति द्रष्टव्यम् । अत्र--

त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनचित्
यथातथावाऽपि सकृत्कृतोऽञ्जलिः ।
तदैव मुष्णात्यशुभान्यशेषतः
शुभानि पुष्णाति न जातु हीयते ॥
हस्तीशदुःखविषदिग्धफलानुबन्धि-
न्याब्रह्मकीटमपराहतसंप्रयोगे ।
दुष्कर्मसंचयवशाद्दुरतिक्रमे नः
प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥

इत्याद्युक्तोऽञ्जलिप्रभावोऽनुसन्धेयः ।

 पक्षे- स्फुटोहोमे इत्यत्र स्फुटः होमे इति छेदः । होमे 'अञ्जलिना जुहुयात्' इति वक्ष्यमाणाञ्जलिकरणकहोमे अयं अञ्जलिः विहितोऽञ्जलिः संकुचितः मुकुळित इति न गृहाणेति कंचिद्बुभुत्सुं प्रत्युपदेशः । किंतु इह होमे सामर्थ्यं दृष्ट्वा पर्यालोच्य एषः विहितः अञ्जलिः स्फुटः व्याकोच इति ग्राह्यः 'स्फुटो व्यक्तप्रफुल्लयोः' इति मेदिनी । अत्र पूर्वमीमांसाप्रथमाध्यायान्तिमसामर्थ्याधिकरणार्थ उदपादितः । तत्र हि-अञ्जलिना सक्तून्प्रदाव्ये जुहुयात्’ इत्यत्र किं देवताप्रसादप्रार्थनायामिव हस्तसंयोगमात्रमञ्जलिर्होमे ग्राह्यः, यथासामर्थ्यं व्याकोच एव वा । इति संशय्य, तत्र विशेषाश्रवणात् अनियम इति पूर्वपक्षं प्रापय्य, अशक्यार्थविध्यसंभवादवश्यंविधायकस्य शक्तिस्सहकारिण्यङ्गीकार्येति शक्तिसहायो विधिरेव यथासामर्थ्यं विधेयं व्यवस्थाप-