पृष्ठम्:अलङ्कारमणिहारः.pdf/५१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
508
अलंकारमणिहारे

पदकर्मधारयः । ततस्तल् । तत्तां इत्याच्चेत् । सोपीत्यत्र श्रुतः अपिशब्दो भिन्नक्रमः । प्रययित इत्यनेन संबध्यते । संजातप्रत्ययोपि । चेदित्येतदत्राप्यनुषज्यते । प्रत्ययान्तोऽपि भवेद्यदीत्यर्थः । खला खल्प्रत्ययेन श्रितो न स्यादिति न । यदि यः कश्चिदपि वा धातुरीषद्दुस्सूपपदतया विहितप्रत्ययस्स्यात्तर्हि 'ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्' इतीषदाद्युपपदकाद्धातोः खल्विधानादीषत्करः दुष्करः सुकर इतिवत् खल्प्रत्ययान्तो भवेदेवेति भावः । उदाहरणमपि सूपपदतामित्यत्रेव दिङ्मात्रतया प्रदर्शितमिति वेदितव्यम् । अत्रापि पूर्ववदेवारोपोऽनुसन्धेयः ॥

 यथा--

 संकुचितोऽञ्जलिरयमिति न गृहाण कदाऽपि ननु फणिनगेन्दो । दृष्ट्वाऽसामर्थ्यमिह ग्राह्योऽञ्ज लिरेष हि स्फुटोहोमे ॥ ७७७ ॥

 ननु फणिनगेन्दो ! अयं मया कृतः अञ्जलिः संकुचितः संक्षिप्तः यथाशास्त्रमकृतत्वादपूर्ण इति न गृहाण । मा ज्ञासीः । मोपेक्षिष्ठा इति भावः । इह मे मम असामर्थ्यं यथावदञ्जलिकरणाशक्ततां दृष्ट्वा स्फुटः अयथावदनुष्ठिततया व्यक्तः एषः यथातथात्राऽपि कृत इति भावः । अञ्जलिः- 'अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी’ इत्युक्तस्त्वत्प्रसादनाशुकारिमुद्राविशेषः अन्योन्याभिमुखमिळितप्रसृतिद्वितयलक्षणः 'पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान्’ इत्यमरः । एकवचनेन सकृत्कृतोप्ययं त्वय्येकाञ्जलिकिंकरे ’ इत्युक्तरीत्याऽऽश्रितवशंवदेन परमकारुणिकसार्वभौमेण एतावद्व्याजलाभमपि महत्तरलाभं मन्वानेन त्वयाऽनुदासितव्य इति द्योत्यते । ग्राह्याः, हीत्यवधारणे, सादरं त्वया