पृष्ठम्:अलङ्कारमणिहारः.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
42
अलंकारमणिहारे

काशति च । कनकनगेशनखाभा कर्पूरति गाङ्गपूरति च ॥ ६२ ॥

 व्यालीशश्शेषः । कालीशश्शम्भुः । कनकनगेशः वेङ्कटाद्रीशः। अत्रैकस्या एवोपमेयभूतायाश्श्रीनिवासनखप्रभायाः मालारूपेण व्यालीशाद्यनेकोपमानोपादानान्मालोपमेयम् । अत्र पूर्वं वाचकलुप्तोदाहरणतयोक्तः ‘अलिबालति हरिनीलति’ इत्यादिश्लोकोऽप्युदाहरणं, तत्र नीलेतिधर्मोपादानं विशेषः । सादृश्यनिमित्तधर्मोपादाने च धर्मस्यैक्ये भेदे चेयं मालोपमा भवति ॥

 तत्र धर्मैक्ये यथा--

 निकष इव कनकरेखा विद्रुमलतिकेव विलसति समुद्रे। अञ्जनगिरिपतिहृदये किञ्जल्कशिखेव कुवलये कमला ॥ ६३ ॥

 राज्यश्रियेव राजा प्राज्यतमप्रतिभयेव कविराजः । कुसुमसमृद्ध्येव मधुर्माधवभक्त्या विराजते मनुजः ॥ ६४ ॥

 प्रातरिव पद्मलक्ष्मीश्शीतज्योतिःकलेव सितपक्षे । सायमिव कुवलयश्रीः प्रायश्श्रीशाश्रिते विभाति श्रीः ॥ ६५ ॥

 मधुमासीव हिमानी विधुभासीवास्तमेति ता-