उपमेयस्योपादानात्तत्र नोपमेयलोप इति वदन्ति । आयश्शूलिक इत्यत्र ‘पार्श्वेनान्विच्छति’ इत्यधिकारे 'अयश्शूलदण्डाजिनाभ्यां ठक्ठञौ’ इत्यन्वीच्छतीत्यर्थे ठक् । तीक्ष्ण उपयोऽयश्शूलं ते नान्विच्छतीत्यर्थः । एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशास्त्रव्युत्पत्तिवैदग्ध्यप्रदर्शनमात्रप्रयोजनो नातिमात्रमलङ्कारशास्त्रेऽर्हति व्युत्पादनीयतामित्याहुः ॥
एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः॥२० ॥
एवं मालोपमारशनोपमासावयवनिरवयवोपमादयोऽनेके भेदास्सम्भवन्तोऽप्युक्तभेद एवान्तर्गतत्वान्न लक्षणीयाः पृथक् । अथापि कांश्चिल्लक्षयामः--
एकस्यैवोपमेयस्य यद्यनेकोपमानता ।
तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥ २१ ॥
मालायां यथा एकेन पुष्पेणापरस्य पुष्पस्य ग्रथनं तथा उपमानां परस्परसम्बन्धान्मालोपमेत्येषा व्यवह्रियते । तथा च दण्डी--
पूष्ण्यातप इवाह्नीव पूषा व्योम्नीव वासरः । |
एवंविधवैचित्र्य एवैषा । केवलमुपमानबाहुळ्ये तु वक्ष्यमाणा बहूपमैव ॥
यथा-
व्यालीशति कालीशति काशति राकाशशिप्र-