पृष्ठम्:अलङ्कारमणिहारः.pdf/४४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
439
समासोक्तिसरः (२५)

नयनानीत्युपमागर्भाया वैयर्थ्यादनुत्थानमेव । यदा तु–‘शरद्वर्षासखी बभौ’ इति चतुर्थचरणं निर्मीयते तदा तु शरन्मात्रवृत्तेर्वर्षासखीत्वस्योपादानादब्जचन्द्रिकाहंसप्रधानस्योपमितसमासस्यावश्यकत्वात्प्रथमप्रादुर्भूतया नयनहसहाराक्षिप्तकामिनीरूपोपमानिकया अत एवैकदेशविवर्तिन्या उपमयैव निर्वाह इति वेदितमपि सहृदयप्रीतये पुननिवेदितमिति हि रसगङ्गाधरे स्थितम् । सेयं लौकिके व्यवहारे लैकिकस्य व्यवहारस्य शास्त्रीये शास्त्रीयस्य लौकिके शास्त्रीयस्य शास्त्रीये लौकिकस्य वा समारोप इति चतुर्धा भवति । तत्राद्या प्रागुदाहृताऽपि पुनरुदाह्रियते बालबुद्धिवैशद्याय ॥

 यथा--

 प्रदरक्षोभादस्रं प्रमुञ्चमाना तव द्विषां सेना । दूनाऽभूद्बीभत्सा म्लाना च रघूद्वहातिविचिकित्सा ॥

 हे रघूद्वह ! तव द्विषां सेना प्रदरेण विदारणेन बाणेन भङ्गेन वा यः क्षोभः तस्मात् । पक्षे- प्रदरेण शोणितस्राविणा स्त्रीरोगविशेषेण यः क्षोभः तस्मात् ‘प्रदरा भङ्गनारीरुग्बाणाः' इत्यमरः । ‘प्रदरो रोगभेदे स्याद्विदारे शरभङ्गयोः' इति मेदिनी च । अस्रं अश्रु केशं वा जात्येकवचनम् । अन्यत्र रुधिरं ‘अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते' इति मेदिनी । प्रमुञ्चमाना विसृजन्ती । मुञ्चतिः स्वरितेत् ततश्शानच् । एकत्र विदारणबाणभङ्गान्यतमजनितवैकल्येन बाष्पायमाणा विकीर्णकेशावेत्यर्थः। अन्यत्र व्याधिविशेषेण रुधिरस्राविणीत्यर्थः । दूना परितप्ता बीभत्सा विकृता बीभत्सरसालम्बनभूता च 'बीभत्सं विकृतं त्रिष्विदं द्वयम्' इत्यमरः । अतिविचिकित्सा अतिमात्रसंश