पृष्ठम्:अलङ्कारमणिहारः.pdf/४४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
440
अलंकारमणिहारे

यग्रस्ता प्राणसंशयमापन्नेत्यर्थः । पक्षे- विगता चिकित्सा रुक्प्रतिक्रिया यस्यास्सा तथोक्ता अतिमात्रं विचिकित्सा अतिविचिकित्सा अतिवेलरोगप्रतीकारविधुरेत्यर्थः । म्लाना क्षीणहर्षा च अभूत् । अत्र प्रस्तुते लौकेके भगवत्पराहतरिपुसेनाव्यवहारे लौकिकव्याधितवनिताव्यवहारारोपः ॥

 शास्त्रीये व्यवहारे शास्त्रीयव्यवहारारोपेण यथा--

 श्रुतविधिना मन्त्राऽऽप्त्रा नानामूलार्थवादसंधात्रा । स भवानवेदि निश्चितमच्युत विदुषा सनातनो धर्मः ॥ ७४३ ॥

 हे अच्युत! श्रुतविधिना श्रुतः निशमितः विधिः ‘द्रष्टव्यो निदिध्यासितव्यः' इत्याम्नातो विधिः येन तथोक्तेन । अत एव मन्त्रा मननशीलेन । मननं नाम श्रुतस्यार्थस्य प्रतिष्ठापनाय युक्तिभिरेवमेवेति चिन्तनम् । नानमूलार्थवादसंधात्रा नाना वक्ष्यमाणरीत्या बहुप्रकाराः मूलार्थः 'कारणं तु ध्येयः' इति ध्येयतयोक्तजगत्कारणरूपवस्तु मूलं चासावर्थश्चेति विग्रहः तद्विषये ये वादाः तेषां संधात्रा शेषषष्ठ्या समासः ‘मूलमाद्ये शिफाभयोः, अर्थोऽभिधेयरैवस्तुप्रयोजनविवृत्तिषु’ इति चामरः । "सन्मूलास्सोम्येमाः, अदोमूलाः क्रियास्सर्वाः, मूलमूलेति खिन्ने" इत्यादौ मूलशब्दः कारणवाचितया प्रयुक्तः । अयं भावः-'सदेव सोम्येदमग्र असीत्, ब्रह्म वा इदमेकमेवाग्र आसीत्, आत्मा वा इदमेक एवाग्र आसीत्, हिरण्यगर्भस्समवर्तताग्रे, न सन्न चासच्छिव एव केवलः' इत्यादीनां नानाविधानां करणवाक्यानामेकविषयत्वावश्यंभावे 'छागो वा मन्त्रवर्णात्’ इत्युक्तन्यायेन सद्ब्रह्मात्महिरण्यगर्भशिवादिसामान्यशब्दान् ‘एको ह वै नारायण