पृष्ठम्:अलङ्कारमणिहारः.pdf/४४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
438
अलंकारमणिहारे

चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरस्वीकारात्तथोक्तमिति वाच्यम् । अनुपदमेव स्वयं तत्स्वीकारात् ॥

हालाहलसमो मन्युरनुकम्पा सुधोपमा ।
कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटाः ॥

इत्यादौ गत्यन्तराभावात्तेनाप्येकदेशविवर्त्युपमाया एव स्वीकृतत्वाच्च । अवश्यक्लृप्तेनोपपत्तौ भेदान्तरकल्पनानौचित्यात् । तस्मादौपम्यगर्भविशेषणोत्थापितस्समासोक्तिप्रकारो न संगच्छते । यत्र श्लिष्टविशेषणेन शुद्धसाधारणविशेषणेन वा सहचरितमौपम्यगर्भविशेषणं तत्र यद्यप्यस्ति समासोक्तिः । तथाऽपि नासावौपम्यगर्भविशेषणोत्थापितस्तृतीयः प्रभेदो भवितुमीष्टे । स्वतन्त्रविषयत्वाभावात् । यथा--

निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका ।
हंसावलीहारयुता शरद्विजयते तराम् ॥

 अत्र पूर्वार्धगतश्लिष्टविशेषणोत्थापितैव समासोक्तिः उत्तरार्धगतेनौपम्यगर्भविशेषणेन विद्वदुत्थापिता युक्तिस्तदनुगामिना मूर्खेणेवानुमोद्यते । एवं ‘दत्तानन्दा समस्तानां प्रफुल्लोत्पलमालिनी’ इति पूर्वार्धे कृते । शुद्धसाधारणविशेषणोत्थापितैव ॥

परिफुल्लाब्जनयना चन्द्रिकाचारुहासिनी ।
हंसावलीहारयुता शरद्विजयते तराम् ॥

इत्यत्रोपमारूपकयोस्साधकस्य बाधकस्य चाभावात्संकरालंकारस्वीकर्तृनये तदुभयसंशयात्मक एकदेशविवर्ती संकरालंकार एव । तदस्वीकर्तृनये च यदोपमितसमासस्फूर्तिस्तदैकदेशविवर्तिन्युपमा । विशेषणसमासस्फूर्तौ तथाविधमेव रूपकमिति प्रथमयोजनयैवाप्रकृतार्थावगतेः द्वितीययोजनायाः परिफुल्लाब्जानीव