पृष्ठम्:अलङ्कारमणिहारः.pdf/४४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
435
समासोक्तिसरः (२५)

 उत्सुका आपततीति छेदः । आपतति आयातीत्यर्थः । अत्र बालकजननीवृत्तान्ताभेदेन स्थितः प्रकृतवृत्तान्तः । निरवधिवात्सल्येत्यादिशुद्धसाधारण्येन धर्मान्तरपुरस्कारः ॥

 शुद्धसाधारण्येन कार्यपुरस्कारेण यथा--

 स्तोतुं त्रपामहे त्वां यस्य तवोच्छृङ्खलो वृषाद्रिमणे । विष्फारो ननु समितावम्बरमाधूय दश दिशो भुङ्क्ते ॥ ७४० ॥

 समितौ सभायाम् । अम्बरं वसनम् । त्वद्विष्फारस्य निर्ल्लजतया सभायामेवाम्बरव्याधूननपूर्वकं दशदिगुपभोगकारित्वात्त्वां स्तोतुं वयमेव लज्जामह इति भावः । वस्तुस्थितिस्तु - युधि तावकधनुर्विष्फारस्सकलगगनदशदिग्व्यापी ईदृशं महाविक्रान्तचूडामणिं त्वां स्तोतुं मितंपचवचसो वयं लज्जामह इति । अत्र प्रस्तुतभगवद्धनुर्ज्यानिर्घोषवृत्तान्तोऽप्रस्तुतनिर्लज्जकामुकवृत्तान्ताभेदेनावतिष्ठते । भुङ्क्ते इति कार्यपुरस्कारेण विशेषणसाम्यम् । भोगश्च प्रकृते औपचारिकः । एवं प्रागुदाहृते ‘सामोदबाष्पगद्गद’ इति पद्येऽपि द्रष्टव्यम् ॥

 कार्यधर्मान्तरयोस्संकरेण साधारण्यं यथा--

 शुभविभवसंप्रसारणमाकलयन्पूर्वरूपमपि भगवन्। रचयसि मघोनि गुणमपि सुभेऽत्र दृढपाणिनिहितशास्त्रस्त्वम् ॥ ७४१ ॥

 हे भगवन् ! दृढं पाणौ निहितं शास्त्रं सुदर्शनादिशस्त्रसमुदयो यस्य स तथोक्तः । आश्रितानिष्टनिवारणेष्टप्रापणार्थमात्तपञ्चायुध इति भावः । त्वं मघोनि इन्द्रे शुभविभवसंप्र