पृष्ठम्:अलङ्कारमणिहारः.pdf/४४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
434
अलंकारमणिहारे

 हे शौरे ! विग्रहकाले आयोधनसमये एकं पदमपि पश्चादनिपात्य एकचरणापसर्पणमप्यकृत्वेत्यर्थः । समानाः तुल्याः उत्तमा इति यावत् । मध्यमाः स्वापेक्षयाऽपकृष्टाः ये वीराश्शूराः तान् । यद्वा- असमानिति छेदः । असमान् शौर्यवीर्यादिभिरसदृशान् । अत एव अमध्यमान् उत्कृष्टान् वीरान् पूर्वं आदावेव न तु विलम्बेन निपात्य पातयित्वा निहत्येत्यर्थः । अनेनास्य परनिरास ईषत्कर इति द्योतितम् । शोभनः शब्दः यशः यस्य तस्य भावं सुशब्दतां यशस्वितामित्यर्थः । प्रकटयसे । ‘शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि' इति रत्नमाला । पक्षे–विग्रहकाले समासार्थं विग्रहप्रदर्शनावसरे समानमध्यमवीरान् उक्तविधान् शब्दान् पूर्वं निपात्य तेषां शब्दानां ‘पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च' इति सूत्रेण पूर्वनिपातस्य नियमितत्वात् पूर्वमेव प्रयुज्येत्यर्थः । एकं पदमपि एकमित्याकारकं शब्दमपि । पश्चादनिपात्य पूर्वमेव प्रयुज्येत्यर्थः । तस्य ‘पूर्वकालैक' इति सूत्रेण पूर्वनिपातनियमात् । सुशब्दतां शब्दशास्त्रप्रावीण्यं प्रकटयसे प्रथयसे इत्यर्थः । अत्र वैयाकरणवृत्तान्ताभेदेन स्थितः प्रस्तुतवृत्तान्तः। निपात्येत्यादिश्लिष्टकार्यपुरस्कारेण विशेषणसाम्यम् ॥

 एवं कार्यातिरिक्तधर्मप्रतिपादकश्लिष्टविशेषणसाम्येन कार्यरूपधर्मप्रतिपादकतत्साम्येन च समासोक्तिद्वैधी दर्शिता ॥

 शुद्धसाधारण्येन धर्मान्तरपुरस्कारेण यथा--

 स्खलितमिमं संसारे ललिततमा दृक्तवात्र कंसारे । निरवधिवात्सल्या मां सरभसमुद्धर्तुमुत्सुकाऽऽपतति ॥ ७३९ ॥