पृष्ठम्:अलङ्कारमणिहारः.pdf/४४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
436
अलंकारमणिहारे

सारणं शुभस्य मङ्गळकरस्य विभवस्य त्रैलोक्यसाम्राज्यस्य संप्रसारणं संप्रदानमिति यावत् । आकलयन् सन् अत एव पूर्वरूपं दुर्वासश्शापात्पूर्वमवस्थितमूर्जितत्वादिरूपं च । आकलयन्निति संबध्यते । प्रवर्तयन्नित्यर्थः । अत एव सुभे शोभना भा दीप्तिर्यस्य तस्मिंस्तथोक्ते उज्ज्वलतेजसीत्यर्थः । अत्र अस्मिन्निन्द्रे गुणमपि नयविनयसमृद्ध्यादिसुगुणमपि रचयसि । परिपूर्णज्ञानशक्तिबलैश्वर्यवीर्यतेजसस्तवानुग्रहादेवेन्द्रस्येदृशसमृद्ध्यादिलाभ इति भावः । अनेनैवाभिप्रायेण भगवन्निति संबोधनम् । पक्षे दृढं स्वभ्यस्तं पाणिनये हितं यच्छास्त्रं व्याकरणं यस्य स तथोक्तस्त्वम् । अस्मिन् पक्षे शुभविभवसंप्रसारणमित्यत्र शुभविभेतिच्छेदः । शुभा विभा प्रभा यस्य तथोक्तः । तस्य संबुद्धिः हे शुभविभ ! हे भगवन्! सुभे सुष्ठुभे ‘यचि भम्’ इत्युक्ताजादिविभक्तिपरकत्वलक्षणां भसंज्ञां प्राप्ते मघोनि मघवशब्दे । वसंप्रसारणं वस्य वकारस्य संप्रसारणं ‘इग्यणस्संप्रसारणम्’ इत्युक्तलक्षणं यण्स्थानिकमिकं उकारमित्यर्थः । 'श्वयुवमघोनामतद्धिते’ इति भसंज्ञकमघवशब्दस्थचकारस्य संप्रसारणविधानादिति भावः । पूर्वरूपमपि 'संप्रसारणाच्च' इति सूत्रेण संप्रसारणादचि परे पूर्वरूपमेकादेशं च आकलयन् निष्पादयन् अत्र अस्मिन्मघवशब्दे गुणमपि ‘आद्गुणः' इत्यनेन गुणसंज्ञिकमेकादेशं च रचयसि । तथाच मघवशब्दे भसंज्ञायां वकारस्य संप्रसारणं पूर्वरूपं गुणं च विधाय मघोनीत्यादिरूपं निष्पादयसीति निर्गळितोऽर्थः । अत्र प्रस्तुते महेन्द्रवैभवादिप्रदातृभगवद्वृत्तान्ते अप्रस्तुतवैयाकरणवृत्तान्तोऽभेदेन स्थितः । अत्र दृढपाणिनिहितशास्त्रत्वेन धर्मेण शुभविभवसंप्रसारणाकलनादिकं कार्यं संकीर्णम् ॥