स्वात्मन उपमेयस्य वाचकस्य च अनुपादानाद्वाचकोपमेयलोपः । इहात्मानमित्यपि सुवचत्वादुपमेयलोप ऐच्छिकः । न चात्र सर्व इत्युपमेयोपादानमस्तीति कथमुपमेयलोप इति वाच्यम् । कर्मविभक्त्यभावेन सर्व इत्यस्य श्रीवासीयतीत्यत्रोपमेयसमर्पकत्वाभावात् । न चैतदनुसारेण श्रीवासीयतीत्यत्र श्रीवास इवाचरतीति समानविभक्तिकत्वकल्पनं घटते । कर्तृक्यचोऽननुशासनादिति दिक् ॥
क्वचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥
अवर्ण्यमुपमानम् । वाचकोपमानलुप्ता तु समास एव स्यादित्यर्थः ॥
यथा--
रहसि व्रजसुन्दर्यास्समागमो यश्च यस्तदुपभोगः। लोलम्बाम्बुरुहीयं तदिदं शौरेर्यदृच्छयोपनतम् ॥ ६० ॥
लोलम्बाम्बुरुहीयमित्यत्र काकताळीयमित्यत्रेव विग्रहः । तथाहि--लोलम्बाम्बुरुहशब्दौ वृत्तिविषये तद्गतक्रियार्तिनौ । तेन लोलम्बागमनमिव अम्बुरुहविकसनमिव लोलम्बाम्बुरुहमिति पूर्वोक्तदिशा समासः । उभयत्रोपमेयं क्रमेण शौरेर्यत्रक्वचिन्निश्शलाकप्रदेशे गमनं तत्रैव व्रजसुन्दर्या अवस्थानं च । तेन शौरिव्रजसुन्दरीसमागमो लोलम्बाम्बुरुहसमागमसदृश इति समासार्थोपमायाः पर्यवसानात्तत्र लोलम्बागमनस्याम्बुरुहविकसनस्य च उपमानस्यानुपादानात्समासे वाचकलोपाच्च वाचकोपमानलोपः । यदृच्छयोपनतमिति धर्मोपादानान्न तल्लोपोऽपि ॥