पृष्ठम्:अलङ्कारमणिहारः.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
39
उपमालंकारसरः (१)

या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा ॥२०

 धर्मवाचकोपमानलुप्ता तु समासगा भवति । अवर्ण्यमुपमानम् ॥

 यथा--

 घनविद्युल्लावण्यं विनतसुरासुरनरावळिशरण्यम् । विलसतु किमपि वरेण्यं वृषगिरिपतिहृदयधाम तारुण्यम् ॥ ६१ ॥

 तारुण्यमिति पृथक्पदम् । तारुण्यत्वेनाध्यवसिता श्रीरित्यर्थः। अत्र विद्युतो लावण्यमिव देदीप्यमानं लावण्यं यस्येत्यस्मिन्नर्थेऽनुशिष्टो विद्युल्लावण्यमित्यत्र धर्मोपमानवाचकानां लोपः । सर्वोप्ययं लोपः 'सप्तम्युपमान’ इति शास्त्रकृतः । अयं च त्रिलोपः--यन्मेळनं गुहायामित्यत्र समासार्थोपमायामपि भवतीत्यवोचाम प्राक् । ततश्च त्रिलोपे धर्मलोपः क्वचिदैच्छिकोऽपि भवतीति द्रष्टव्यम् । नन्वत्र विद्युतो लावण्यमिव देदीप्यमानं लावण्यं यस्येति विग्रहे सति समासे उपमेयभूतलावण्यपदस्यैव लोपः किं न स्यात् तथा च वाचकोपमेयलुप्तैवेयं सम्पद्यतां न तु धर्मवाचकोपमानलुप्तेति चेत् उपमेयलोपेऽपि न त्रिलोपवत्त्वहानिरित्येके ॥

 वस्तुतस्तु—‘अनेकमन्यपदार्थे’ इति सूत्रस्थ ‘सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च' इति भाष्यवार्तिकानुरोधेनोपमानपदस्यैवात्र लोपो युक्तः । तथाहि वार्तिकस्यायमर्थः--सप्तम्युपमानपूर्वपदस्येत्यत्र सप्तमी कण्ठे स्थ इत्याद्येकदेशभूता कण्ठे इत्यादिका सप्तमी उपमानं उष्ट्रमुखादिशब्दघटकं उष्ट्रेत्यादिकं उपमानं