पृष्ठम्:अलङ्कारमणिहारः.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
37
उपमालंकारसरः (१)

यन्मेळनं गुहायां मुकुन्दमुचुकुन्दयोर्यदस्यास्मात् ।
वरलाभो यादृच्छिकमासान्धकवर्तकीयमेवेदम् ॥

 इति पद्यस्य प्रकारन्तरेण निर्माणे तु यादृच्छिकत्वरूपधर्मोपादानात्प्रत्ययार्थोपमायां केवलोपमानलोपस्यापि तद्धिते इदमेवोदाहरणं भविष्यति । अन्धकावस्थानमिव वर्तकागमनमिवेति समासार्थोपमायां तु मुचुकुन्दावस्थानमुकुन्दागमनमेळनोपमानभूतस्यान्धकावस्थानवर्तकागमनसमागमस्यानुपादानादुपमानलोपः । तथा समासवशाद्वाचकलोपः धर्मानुपादानाद्धर्मलोपश्चेति धर्मवाचकोपमानलोपस्यापीदमेवोदाहरणं भविष्यतीत्यवहितचित्तैरन्तेवासिभिरनुसन्धेयम् ॥

क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता ॥१९

 यथा--

 श्रीवासीयति सर्वोप्यावासं प्राप्य तस्य वृषशैले । अतसीसुमसमतद्रुचिकृतसीमातीतकालिमा कामम् ॥ ५९ ॥

 सर्वोऽपि जनः वृषशैले तस्य श्रीनिवासस्य आवासं दिव्यालयं प्राप्य प्रविश्य कामं यथेप्सितं अतसीसुमसमया तस्य श्रीनिवासस्य रुच्या प्रभया कृतस्संपादितः सीमातीतः अनवधिकः कालिमा श्यामता यस्य तथाभूतस्सन् श्रीवासीयति आत्मानं श्रीनिवासमिवाचरति नीलवर्णतया तद्वदाचरतीत्यर्थः । अत्र आत्मानं श्रीनिवासमिवाचरतीति सामर्थ्याद्गम्यमानतया