पृष्ठम्:अलङ्कारमणिहारः.pdf/४२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
417
सहोक्तिसरः (२३)

 अत्र फणमणिघृणिज्वालामालयोर्बिम्बप्रतिबिम्बभावः । परिवीतत्वावृतत्वयोस्तु वस्तुप्रतिवस्तुभावः । चक्रमञ्चमोचनयोः पौर्वापर्यविपर्ययः तन्मूलातिशयोक्त्याऽनुप्राणिता सहोक्तिः ॥

 अलंकारान्तरसंकीर्णाऽपीयं संभवति । यथा-

 मनसा समं विलीनं घनसारस्येव शकलमनलज्वालात् । द्विरसनगिरिशेखरतः दुरितं मम विततमेकपद एव बत ॥ ७११ ॥

अनलज्वालात् घनसारस्थ कर्पूरस्य शकलमिव जात्यभिप्रायकमेकवचनम् । द्विरसनगिरिशेखरतः शेषाचलोत्त्तंसाच्छ्रीनिवासात् विततं विस्तृतं मम दुरितं, पूर्ववदेकवचनम् । एकपद एव एकचरणन्यासमात्र एव अतिक्षिप्रमेवेत्यर्थः। अथवा-एकपदे इत्येदन्तमव्ययमेकस्मादित्यर्थे चादिषु पठ्यते । अतर्कितमेवेत्यर्थः । अतिसत्वरमेवेति यावत् । मनसा समं विलीनम् । कर्पूरपक्षे - विलीनं विद्रुतमित्यर्थः । ‘विलोने विद्रुतद्रुतौ' इत्यमरः । दुरितपक्षे – दर्शनाविषयमासीदित्यर्थः । मनःपक्षे तु - द्विरसनगिरिशेखरतः श्रीनिवासात् पञ्चम्यास्सार्वविभक्तिकस्तसि । मम मनः एकपद एव एकस्मिन्व्यवसाय एव तत्प्राप्त्येकव्यवसाय एव लीनं लग्नमित्यर्थः। ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ इत्युक्तरीत्या तत्प्राप्त्येकव्यवसायस्य तदधीनत्वादिति भावः । यद्वा - सप्तम्यास्तसि । श्रीनिवासे एकस्मिन्पदे वस्तुन्येव लीनमित्यर्थः ।

अथवा षष्ठ्यास्तसिः। श्रीनिवासस्य एकस्मिन्पदे चरणे लग्नमित्यर्थः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । अत्रोपमाश्लेषमूलातिशयोक्तिभ्यामुज्जीविता सहोक्तिः ॥

 ALANKARA
53