पृष्ठम्:अलङ्कारमणिहारः.pdf/४२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
416
अलंकारमणिहारे

मोदस्य सातिः अतानि । खेदस्यावसानं मोदस्य दानं च कृतमित्यर्थः । ‘सातिर्दानावसानयोः' इत्यमरः । अत्रापि पूर्वोदाहरणवन्मालारूपतादिकं यथायोगमनुसन्धेयम् ॥

 यथावा--

 गुरुभिस्सह शुश्रूषा चरिते तव लसति तावकीनानाम् । कीर्तिर्दानोन्मिषिता गृहाङ्गणेऽच्युत दिशांगणेन समम् ॥ ७०९ ॥

 हे अच्युत ! तावकीनानां त्वद्भक्तानां गुरुभिः आचार्यैस्सह तव चरिते शुश्रूषा लसति गुरुषु विषये शुश्रूषा परिचर्या त्वच्चरिते विषये श्रवणेच्छा प्रकाशत इत्यर्थः । ‘अथ शुश्रूषोपासनाश्रवणेच्छयोः' इति हेमचन्द्रः । दिशां ककुभां गणेन समम् । यद्वा-दिशाशब्दष्टाबन्तः दिशानामङ्गणेन सममित्यर्थः । गृहाङ्गणे तेषामेव भवनाजिरे दानोन्मिषिता कीर्तिः लसतीत्यनुषज्यते । दिशाङ्गणे दानेन वितरणेन उन्मिषिता उदञ्चिता कीर्तिः यशः लसति गृहाङ्गणे दानेन द्विरदमदसलिलेन उन्मिषिता जनिता कीर्तिः कर्दमः विस्तृतिर्वा लसतीत्यर्थः । 'दानं गजमदे त्यागे, कीर्तिः प्रसादे यशसि, कर्दमे विस्तृतावपि' इति च रत्नमाला । अत्रापि यथासंभवं मालारूपतादिकं द्रष्टव्यम् । अधिकरणसाहित्यं तु विशेषः । पूर्वार्धे चरिते इति वैषयिकमधिकरणं, उत्तरार्धे गृहाङ्गणे इति तु औपश्लेषिकमभिव्यापकं वा तदितिभिदा। अभिव्याप्तिश्चात्रापेक्षिकी बोध्या ॥

 बिम्बप्रतिबिम्बभावाद्यापन्नधर्मताऽप्यत्र संभवति । यथा--

 फणमणिघृणिपरिवीतं ज्वालामालावृतेन चक्रेण । सह मुञ्चन्नहिमञ्चं सहसा स हरिः पुनातु करिवरदः ॥ ७१० ॥