पृष्ठम्:अलङ्कारमणिहारः.pdf/४२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
415
सहोक्तिसरः (२३)

 शोणोरुषा व्यरचि दृक्कोणेन समं दशास्यकायश्च । बाणेन सहामुष्य प्राणोऽप्युदधारि रघुपते भवता ॥ ७०७ ॥

 हे रघुपते ! भवता दृक्कोणेन समं दशास्यकायश्च रुषा शोणो व्यरचि । पक्षे- अरुषेति छेदः । दृक्कोणः रुषा शोणः दशस्यकायः अरुषा व्रणेन शोणः लोहितः व्यरचीत्यर्थः । 'व्रणोऽस्त्रियामीर्ममरुः' इत्यमरः । बाणेन सह अमुष्य दशस्यस्य प्राणः पञ्चवृत्तिर्मुख्यप्राणोपि उदधारि बाण उत्क्षिप्तः प्राण उन्मूलित इत्यर्थः । उत्पूर्वकस्य धरतेरुपपादितोभयार्थशक्तत्वात् । 'स्यादुद्धरणमुन्नये । भुक्तोज्झितोन्मूलनयोः' इति हेमचन्द्रः । अत्र द्वयोरेव परस्परविलक्षणसहोक्त्योस्सद्भावेऽपि मालात्वमस्त्येव । एवमपि रसगङ्गाधरादौ मालासहोक्तेरुदाहरणात् । पूर्वार्धे गुणसाहित्यं उत्तरार्धे क्रियासाहित्यं श्लेषमूलातिशयोक्त्या पोर्वापर्यविपर्ययात्मकातिशयोक्त्या चानुप्राणितम् । पूर्वोदाहरणे तु अनु गामिधर्मोत्तम्भितं साहित्यमित्यादि वैलक्षण्यं द्रष्टव्यम् ॥

 यथावा--

 आर्तिं सार्धं मौर्व्या निशिचरततिरध्यरोपि रघुपतिना । खेदेन समं सातिर्मोदस्यातानि तेन सवनभुजाम् ॥ ७०८ ॥

 रघुपतिना मौर्व्या शिञ्जिन्या सार्धं निशिचराणां ततिः आर्तिं अध्यरोपि । मौर्वी धनुष्कोटिं निशिचरतातिः पीडां च अध्यरोपीत्यर्थः । ‘आर्तिः पीडाधनुष्कोट्योः' इत्यमरः । तेन आर्त्यध्यारोपणेन । रघुपतिना वा सवनभुजां देवानां खेदेन समं