पृष्ठम्:अलङ्कारमणिहारः.pdf/४२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
418
अलंकारमणिहारे

 यथावा--

 विबुधाभयदः कथमस्यसुरकदम्बेन सह सुरकदम्बम् । भवता वृषशैलमणे सुसाध्वसं यद्व्यतान्यतिप्रसभम् ॥ ७१२ ॥

 हे वृषशैलमणे ? त्वं कथं विबुधाभयदः असि । कुतो नास्मीत्यत आह-असुरेत्यादि । भवता असुरकदम्बेन सह सुरकदम्बं अतिप्रसभं सुसाध्वसं व्यतानि असुरकदम्बं अतिप्रसह्य अतेत्रस्तमतानीत्यर्थः । सुष्ठु साध्वसं यस्य तत्सुसाध्वसमीति समासः । सुरकदम्बपक्षे–सुसाधु असं इतिच्छेदः। सुसाधु असं अतिप्रसभमतानीति वैपरीत्येन योजना । सुसाधु अतिसम्यक् असं अविद्यमानसकारं अतिप्रसभं अतिप्रभमित्यर्थः । शब्दार्थयोस्तादात्म्यं न विस्मर्तव्यम् । अतानि अतितेजस्वि विरचितमित्यभिप्रायः । इयं हिताहितवृत्तितौल्यलक्षणतुल्ययोगितया श्लेषेण निन्दया स्तुत्यभिव्यक्तिलक्षणव्याजस्तुत्या चानुप्राणिता सहोक्तिरिति ध्येयम् ॥

 यथावा--

 औदार्यमद्भुतं तव साकं विद्वेषिभिः प्रियेभ्योपि। प्रददासि सत्वरं त्वं नारकमतिदुःखमहिगिरिसुरद्रो ॥ ७१३ ॥

 हे अहिगिरिसुरद्रो? एतच्च महोदारताभिप्रायगर्भम् । तव औदार्यं अद्भुतं लोकविलक्षणम् । तदेवोपपादयति -साकमिति । विद्वेषिभिस्साकं प्रियेभ्योपि ‘स च मम प्रियः’ इत्युक्तदिशा प्रीतिपात्रेभ्यो ज्ञानिभ्योपि सत्वरं हिताहितविवेचनव्यवधानविधुरमेव अतिदुःखं नारकं प्रददासीत्युपालभ्मः । विद्वेषिभ्यः अतिमात्रव्यथा