पृष्ठम्:अलङ्कारमणिहारः.pdf/४१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
406
अलंकारमणिहारे

 अस्य चालंकारस्य सादृश्यगर्भत्वात्सादृश्यस्य च त्रिविधधर्मोन्मीलितत्वादत्रापि तत्प्रकारानुगमोऽनुसन्धेयः ॥

 तत्रानुगामिनि धर्मे यथा—

 आशंसनीयमखिलैरास्वाद्यं चामृतं जडध्युदितम् । अजडध्युदितं ललितं चरितं भवतो हरे पराकुरुते ।।६९२॥

 जडधीभिः मन्दमतिभिः उदितं उक्तम् । जलधावुत्पन्नमिति वस्तुस्थितिः । अजडधीभिः सूक्ष्ममतिभिः उदितं उक्तं जलधावनुद्भूतं च । अत्राशंसनीयत्वास्वाद्यत्वललितत्वान्यनुगामिनो धर्माः । श्लेषोपात्ते जडध्यजडध्युदितत्वे अपकर्षोत्कर्षहेतू ॥

 बिम्बप्रतिबिम्बभावापन्ने यथा-

 परिचितमुक्ताहारः कण्ठः कण्ठीरवाद्रिपतिदयिते । परिगतपयःपयोनिधितरङ्गमपहसति कम्बुमम्ब तव ॥ ६९३ ॥

 अत्र मुक्ताहारदुग्धोदतरङ्गयोर्बिम्बप्रतिबिम्बभावः परिचितपरिगतयोश्शुद्धसामान्यता ॥

 एवं सादृश्यालीढो व्यतिरेको निरूपितः । अभेदालीढोऽप्येष संभवति । यथा—

 निर्धूतपलाशकुलो नाथ विशालेक्षणो विधुतकलिकः । भजसि सदानन्दनतां मन्दारस्त्वमिति कथमिव वदेम ॥ ६९४ ॥