पृष्ठम्:अलङ्कारमणिहारः.pdf/४११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
405
व्यतिरेकसरः (२२)

चन्द्रिकायां वैद्यनाथः— ‘किंचिद्धर्मप्रयुक्तसाम्यवत्तया प्रतीयमानयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यं व्यतिरेकशरीरम् । वैलक्षण्यं तु क्वचिदुपमेयस्योत्कर्षे क्वचिच्च तदपकर्षे पर्यवसन्नम् । क्वचित्तु तदन्यतरपर्यवसानविरहेऽपि स्ववैचित्र्यमात्रविश्रान्तमिति बोध्यम् । एतेन चरमभेदद्वयतदुदाहरणदूषणं कस्यचिदापातरमणीयमिव भासमानं प्रत्युक्तमिति वेदितव्यम् । अत्यन्तासारतया तु नानुवादमर्हतीत्युपरम्यते' इत्यवादीत् ॥

 अलंकारान्तरोत्तम्भितोऽप्ययं संभवति । यथा—

 वृक्षं परिष्वजेते सयुजौ सुहृदौ समं सुपर्णौ द्वौ । एकस्स्वाद्वत्त्यनयोः पिप्पलमन्योऽभिचाकशीत्यनदन् ॥ ६९१ ॥

 इदं पद्यं-

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥

इति श्रुत्यर्थानुवादि । ‘युज्यत इति युक् । युक्छब्दो गुणपरः समानगुणकस्सयुगिति व्यासार्यैर्विवृतत्वात् । सयुजौ समानगुणकौ अपहतपाप्मत्वादिगुणैः परस्परसमानौ । सखायौ सहचरौ द्वौ सुपर्णौ पक्षिसदृशौ । समानं एकं वृक्षं वृक्षवच्छेदनार्हं शरीरं समाश्रितावित्यर्थः । तयोर्मध्ये अन्यतरो जीवः स्वादु परिपक्वं पिप्पलं कर्मफलं भुङ्क्ते । अन्यस्तु परमात्मा अभुञ्जान एव प्रकाशते’ इति रङ्गरामानुजमुनयः । अयं रूपकातिशयोक्त्युत्तम्भितः । एवं यथायोगमलंकारान्तरसंकीर्णता द्रष्टव्या ॥