पृष्ठम्:अलङ्कारमणिहारः.pdf/३९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
387
व्यतिरकालंकरिसरः (२२)

यथावा--

 सन्तान उदारस्स्तान्नन्ता सस्स्यात्परं प्रतीपोपगमे । किं तादृशेन कैटभहन्ता तुल्योस्तु कस्यचिदनन्ताऽसौ ॥ ६६६ ॥

 सन्तानः देवतरुविशेषः उदारः अनुपाधिकनिर्देशेन सर्वमहान् स्तात् । सर्वमहान् भवतु चेद्भवतादित्यनादरे । दातेति तु वस्तुस्थितिः । ‘उदारो दातृमहतोः' इत्यमरः । परं परंतु प्रतीपानां प्रत्यर्थिनां उपगमे समीपगमने सः सन्तानः अत्रानुस्वारस्य “वा पदन्तस्य’ इति वैकल्पिकः परसवर्णो बोध्यः अर्थान्तरे शब्दानुरूप्याय । नन्ता नमनकर्ता स्यात् । साध्वसेन प्रणमेदित्यर्थः । तस्मादनुदार एवेति भावः । पक्षे-प्रतीपोपगमे वैपरीत्येन गतौ नन्तासः सन्तानशब्दो नन्तास इति स्यादित्यर्थः । प्राथमिकार्थे सस्स्यादित्यत्र द्वितीयसकारस्य ‘अनचि च' इति वा द्वित्वम् । अन्यथा तच्छब्दप्रथमैकवचनान्तस्य स इत्यस्य ‘एतत्तदोस्सुलोपः' इत्यादिना सुलोपेन सकारस्य तस्य द्वित्वायोगात् । तादृशेन प्रतीपनमनकर्ता कस्यचिदपि अनन्ता अनमनकर्ता, नमेस्तृच् । ‘नन्तव्यः परमश्शेषी' इत्युक्तरीत्या सर्वलोकनन्तव्यस्य तस्य नन्तव्यान्तरासंभवादिति भावः । अत्र ‘वृक्ष इव स्तब्धः' इति श्रुत्यर्थोऽनुसन्धेयः । असौ कैटभहन्ता तुल्योऽस्तु किं तुल्यो न भवेदेवेत्यर्थः । अत्र नन्तृत्वमुपमानापकर्षहेतुः । अनन्तृत्वमुपमेयोत्कर्षहेतुश्चेति द्वयमप्युपात्तम् । उपमा च तुल्यशब्दोपादानादार्थी । श्लेषस्तूपमानापकर्षमात्रे इति विशेषः ॥