पृष्ठम्:अलङ्कारमणिहारः.pdf/३९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
386
अलंकारमणिहारे

प्तिमितदीप्तिमतोस्साम्यायोगात् । पक्षे-मुखवर्णे आदिमाक्षरे मितामिवर्णत्वं यस्यास्सा तथोक्ता । मिळिन्दजाभाशब्दस्य तथात्वात्। तथा पावनया तव तन्वैव अग्रे पुरः सरकः मद्यपानं तत्पात्रं इक्षुमद्यं वा यस्यास्सा तथोक्ता अतिमात्रमपवित्रेति भावः । 'चषकोऽस्त्री पानपात्रं सरकोऽपि' इत्यमरः । ‘सरकाऽस्त्री शीधुपाने शीधुपात्रेक्षुमद्ययोः' इति मेदिनी च । अग्रे इत्येदन्तमव्ययम् । पक्षे- अग्रेसरः कः कवर्णो यस्यास्सेति तु तत्त्वम् । कळिन्दजाभाशब्दस्य तथात्वात् । शब्दार्थतादात्म्यं न विस्मर्तव्यम् । कळिन्दजायाः यमुनायाः आभा वा सदृशी किं । न सदृशीत्यर्थः । पावनापावनयोस्तौल्यायोगात् । अत्राप्युपमानापकर्षकोपमेयोत्कर्षकयोरुभयोरुपादानं आर्थी चोपमा श्लेषश्चेति सर्वं तुल्यम् । द्वे उपमाने यथासंख्यसंकीर्णे इति तु विशेषः॥

 यथावा-

 घननिर्घोषत्रस्तः किं सदृशो मानसैकजन्यस्स्यात् । हंसश्शङ्खेन हरेः पटुनिर्घोषेण पाञ्चजन्येन ॥ ६६५ ॥

 घननिर्घोशः गंभीरध्वनिः यस्यकस्यचिदति भावः । तस्मात् त्रस्तः एकमेव जन्यं युद्धं ‘युद्धमायोधनं जन्यं' इत्यमरः । तदपि मानसं मनस्संकल्पितमेव न तु क्रियया निर्वर्तितं यस्य स तथोक्तः । मानससरोजन्मेति वास्तवार्थः । पटुनिर्घोषेण पाञ्चजन्येन पञ्चजन्यानि युद्धानि सोढान्यस्य पाञ्चजन्यः । ‘तदस्य सोढम्’ इत्यर्थे प्राग्दीव्यतीयोऽण् । पञ्चसंख्याकयुद्धजेतेति यावत् । पक्षे–पाञ्चजन्यनाम्ना शङ्खेनेत्यर्थः । अत्राप्युभयोपादानं आर्थी चोपमा श्लेषश्च । अत्रोपमेयस्यापि श्लिष्टत्वं प्राथमिककोदाहरणाद्विशेषः ॥