पृष्ठम्:अलङ्कारमणिहारः.pdf/३९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
388
अलंकारमणिहारे

 तीव्रक्षार नदीन त्वं न समो माधवस्य सविशेषम् । अधरितशीर्षोऽपि भवन्न दीनरक्षाव्रती भवेर्यस्मात् ॥ ६५७ ॥

 तीव्रक्षार! अतिमात्रकटो! निर्दयेति यावत् । अतिमात्रलवणेति वस्तुस्थितिः । ‘तीव्रं कटूष्णात्यर्थेषु’ इति, ‘क्षारः काचे रसे गुडे । भस्मनि लवणे धूर्ते’ इति च हेमचन्द्रः । हे अतिधूर्तेति वा अर्थः । वस्तुस्थितिस्तु पूर्ववदेव । हे नदीन! सरित्पते ! त्वं माधवस्य श्रीनिवासस्य भगवतः न समः । यद्यपि नदीनस्त्वं तथाऽपि तीव्रक्षारत्वान्न तुल्य इति भावः । तत्र हेत्वन्तरं चाह- यस्मात् त्वं सविशेषं सातिशयं यथा तथा अधरितशीर्षः अधःकृतशिराः भवन्नपि दीनानां रक्षैव व्रतं तदस्यास्तीति दीनरलक्षाव्रती न भवेः । निर्घृणस्यातिधूर्तस्य वा दीनरक्षनणैकता न संभवेदिति भावः । पक्षे- नदीनशब्दः विशेष्यते भेद्यते अनेनेति विशेष, करणे घञ् । विशेषणमित्यर्थः । सविशेषं तीव्रक्षारेति विशेषणसहितं यथा स्यात्तथा अधरितशीर्षः प्रातिलोम्येन पठ्यमान इति यावत् ।नदीनरक्षाव्रतीत्यानुपूर्वीवान्भवतीत्यर्थः । अत्रोपमानापकर्षहेतुस्तीव्रक्षारत्वं नदीनरक्षाब्रतित्वं चोपात्तं, उपमेयोकर्षकत्वं तु निरवधिदयानिधित्वं सकृत्प्रपन्नजनतासंरक्षणैकव्रतित्वं च नोपात्तम् । उपमा चार्थी श्लेषश्च ॥

 यथावा--

 आदौ महितो विजितस्त्वदधरसुधया ततः