पृष्ठम्:अलङ्कारमणिहारः.pdf/३९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
385
व्यतिरेकसरः (२२)

 श्रीमन्! हे कनकगिरीन्दो! मुग्धाः अतत्त्वविदः व्योम गगनं तव समानं रूपं यस्य तत् सरूपं वदन्तु कथयन्तु तत्त्वविदस्तु न वदन्तीति भावः । कुत इत्यत आह--व्योकारमिति । तत् व्योम कर्तृ व्योकारं अयस्कारं आश्रितम् । कर्तरि क्तः । ‘व्योकारो लोहकारकः' इत्यमरः । ‘व्योकारोऽयस्करोऽयस्कारो लोहकारस्स्यात्’ इति रत्नकोशः। ‘व्योकारः कर्मारो लोहकारः' इति हेमचन्द्रश्च । व्यो करोतीति विग्रहः । कर्मण्यण् 'अङ्गारीयदारुसंग्रहैर्योकारैः’ इति हर्षचरिते प्रयोगश्च । वास्तवार्थस्तु व्यो इति वर्णमाश्रितमिति । ‘वर्णात्कारे ’ इति कारप्रत्ययः । सुजातरूपस्य शोभनसुवर्णस्य । पक्षे-रमणीयरूपस्येत्यर्थः ॥ तव कथं सदृशः, तुल्यो न भवत्येव । अयस्काराश्रितसुजातरूपयोस्साम्यायोगादिति भावः । अत्रापि पूर्ववदेव सर्वम् । उपमेयोत्कर्षकोपमानापकर्षकहेतुस्त्वत्रैकःपूर्वत्र द्वाविति विशेषः ॥

 यथावा--

 मुखवर्णमिताऽतिरुचाऽग्रेसरका देवदेव पावनया । तन्वा तव किं तुल्या मिळिन्दजाभा कळिन्दजाभा वा ॥ ६६४ ॥

 हे देवदेव ! अतिरुचा सर्वतोमुखदीप्तिमत्या तव तन्वा मुखवर्णमिता मुखस्य वर्णो रूपं दीप्तिर्वा मितोऽल्पो यस्यास्सा तथोक्ता ।

वर्णो द्विजादिशुक्लादियशोगुणकथासु च ।
स्तुतौ नाना स्त्रियां भेदरूपाक्षरविलेपने ॥

 इति मेदिनी । मिळिन्दाज्जाता मिळिन्दजा भ्रमरगतेत्यर्थः ।

आभा प्रभा । कर्मधारयः । सदृशी किं न सदृशीत्यर्थः, अतिदी-

 ALANKARA
49