पृष्ठम्:अलङ्कारमणिहारः.pdf/३९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
384
अलंकारमणिहारे

 हे सुमुखि ! हे श्रीः! अन्तः मध्ये प्रच्छन्नं यथा स्यात्तथेति वा । सुवर्णं कनकम् । पक्षे -अन्तः स्ववाचकशब्दमध्ये सुवर्णं सु इत्याकारकमक्षरं वहदपि दधानमपि मुखे वक्रे आदौ च कुवर्णं कुत्सितवर्णं कु इत्याकारकमक्षरं च, सदा दधत् कुसुमं प्रसूनं कुसुमपदं च । हरिण्याः सुवर्णप्रतिमायाः, अनेनास्याः अप्रच्छन्नसर्वाङ्गसुवर्णत्वं दर्शितम् । हरितवर्णायाश्च ‘हिरण्यवर्णां हरिणीम्' इति श्रुतेः। ‘हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या' इत्यमरः । तव वपुषः पश्चात् परोक्षमिति यावत् । समं समंमन्यमिति यावत् अस्तु । पुरः समक्षं तु न, नसमं स्यादित्यर्थः । परोक्षं सममिति विकत्थतां नाम प्रत्यक्षं तु कथं सममिति ब्रूयादिति भावः । यद्वा - वपुषः पश्चात् चरमाङ्गे सममस्तु पुरः अग्रभागे तु न सममेवेत्यर्थः । अथवा- पश्चात् भाविनि काले यदाकदा वा समं अस्तु सद्दशं भवेच्चेद्भवत्वित्यनादरे । पुरः प्रथममेव तु न समं स्यात् । कालत्रयेऽपि समं न भवत्येवेति हृदयम् । पक्षे –कु सु इति वर्णद्वयादनन्तरं समं मकारसहितमित्यर्थः, कुसुमशब्दस्य तथैव दर्शनात् । पुरतः आदौ तु न, मकारसहितं न भवतीत्यर्थः । उक्तशब्दस्यातथात्वादिति भावः । अत्रोभयोपादानं, उपमा चार्थी, सदृशशब्देन तत्कथनात् । श्लेषश्च ॥

 यथावा--

 श्रीमन्कनकगिरीन्द्रो व्योम सरूपं वदन्तु तव मुग्धाः । व्योकारमाश्रितं तत्सुजातरूपस्य तव कथं सदृशम् ॥ ६६३ ॥